SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ दण्डविवेकः । कामधेनौ तूभयत्र व्यङ्गति पठितं तत्र व्यङ्गत्वेन खजादयो विवक्षिताः। अश्लीलं निष्ठुरञ्च प्रपञ्चयति स एवन्यङ्गावपूरणं वचो क्रोधात्तु कुरुते यदा। वृत्तदेशकुलानाञ्च अश्लीला सा बुधैः स्मृता ॥ महापातकयोत्रौ च राजस्तेयकरौ च या। जातिभ्रंशकरी या च तौबा सा प्रथिता तु वाक् ॥ न्यगावपूरणं निकृष्टाङ्गप्रकटीकरणेन तिरस्करणं कामधेनावङ्गति पठितम् । बृहस्पतिः,भगिनी- मासम्बन्धमुपपातकशंसनम् । पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥ अभक्ष्यापेयकथनं महापातकदूषणम् । पारुष्यमुत्तमं प्रोक्तं तौवं ममाभिघट्टनम् ॥ भगिनी-मासम्बद्धमुपपातकशंसनमिति तव भगिनी तव माता मया ग्राह्येति कीर्तनमित्यर्थः । इति रत्नाकरः। एवमेव हलायुधः। वस्तुतस्तु मापदं मातृसपत्नौपरं तेन भगिनौं मातृसपत्नौं वा गतौ यतामौति कौर्तनमित्यर्थः। यथाव्याख्यानात्तस्योपपातकत्वाभावात् । १ मूले वाचाक्रोशात्तु । २ क्वचित् यदौतिपाठः। ३ घ पुस्तके राजद्देष । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy