SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ वाक्पारुष्यदण्डः। तत्र नारदः, देशजातिकुलादौनामाक्रोशन्यङ्घसंज्ञितम् । यहचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥ निष्ठुराश्लीलतौव्रत्वात्तदपि विविधं स्मृतम् । गौरवानुक्रमात्तेषां दण्डोऽप्युक्तः क्रमागुरुः ॥ साक्षेपं निष्ठुरं ज्ञेयमश्लौलं न्यङ्गुसंज्ञितम् । पतनौयैरुपन्यासैस्तौव्रमाहुर्मनीषिणः ॥ धिमन्त्यि 'जेत्यादि साक्षेपं, न्यकरिहासत्यमवद्यं तेन भगिन्यादिगमनयुक्तमश्लौलं सुरापोऽसौत्यादिमहापातकाक्रोशयुक्तं वचस्तौमिति मिताक्षराकारः।। अचाक्रोशन्यङ्कुसङ्गितप्रतिकूलार्थानां त्रयाणामेषां विवरणमिति व्यवहारतरङ्गे गणेश्वरमिश्राः। युक्तच्चैतत्-तथाहि अन्वर्थसंज्ञावगमितं वाक्करणकमनोविरुक्षणलक्षणं सामान्यलक्षणं देशाद्याक्रोशो न्यङ्घसंज्ञितं निष्ठुरार्थमिति विभागः। तेषां लाघवगौरवातिगौरवानुसारिण्यो लघु-गुरु-गुरुतरदण्डसम्बादिन्यो निष्ठुरादयः संज्ञाः, तासां विवरणं साक्षेपमित्यादि। यत्तु आक्रोशन्यङ्घसंयुतमिति पठित्वा उच्चैर्भाषणमाक्रोशः, न्यङ्गु अवद्यं तदुभयसंयुक्तं यत् प्रतिकूलार्थ १ घ पुस्तके जाल्मेत्यादि पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy