SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धक्याद्यभिगमे दण्डः । १८८ युक्तञ्चैतत् सर्वेषां स्वदारनियम इति शङ्खलिखितस्वरसात् विध्यतिक्रमे पापस्यावश्यकत्वात् । यत्तु- दण्डेनापि पापं गच्छतौति प्रामुक्तं तदभिगमभिन्नविषयम् । अत एवाह नारदः, अगम्यागामिनः शास्तिर्दण्डो राज्ञा प्रकीर्तितः। प्रायश्चित्तविधानन्तु पापानां स्यादिशोधनम् ॥ इति रहस्यकृतेऽगम्यागमने दण्डाभावादिदं प्रायश्चित्तविधानमिति चेत् । तथापि प्रकृते पापं ध्रुवम्। वस्तुतस्तु अन्यत्रापि प्रायश्चित्तरूपादेव दण्डात् पापनिवृत्तिन्तु दण्डमात्रादिति प्रागुक्तम् । भुजिष्यासु स्वैरिण्यादिषु परेणावरोध्य भुज्यमानासु।। सपरिग्रहाः परेणावरुद्धत्वात् । परदारवदिति सामान्योक्तेः । दण्डे विशेषमाह याज्ञवल्क्यः, अवरुद्वासु दासौषु भुजिष्यासु तथैव च । गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ अवरुद्धासु दासौषु परेणावरुध्य धृता दास्यस्तासु अनुलामास्वपौत्यर्थः । इति रत्नाकरः । मिताक्षरायान्तु शुश्रूषाहानिव्युदासाथ गृह एव त्वया स्थातव्यमित्येवं परपुरुषसम्भोगतो निरुवा दास्योऽवरुद्धाः। नियतपुरुषपरिग्रहा भुजिष्याः। च शब्दाद्देश्या-स्वैरिणीनां गम्यानां साधारणस्त्रीणां ग्रहणमित्युक्तम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy