SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ बन्धक्याद्यभिगमे दण्डः'। व्यासः, बहुभिर्भुक्तपूर्वा या गच्छेद्यस्ता नराधमः । तस्य वेश्यावदिच्छन्ति दण्डनं न तु दारवत् ॥ बन्धक्यधिकारे यमः, परदारे सवर्णासु दाप्याः स्यः पञ्चकृष्णलान् । असवर्णास्वानुलोम्ये दण्डो हादशको मतः ॥ परदारे परदारगमने एकवचनस्वरसात्, कृष्णलो यवत्रयं दादशको हादशपणात्मकः । नारदः, - स्वैरिण्यब्राह्मणौ वेश्या दासी निष्कासिनौ च या। गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥ आस्वेव तु भुजिष्यासु दोषः स्यात् परदारवत् । गम्या अपि हि नोपेया यतस्ताः सपरिग्रहाः ॥ स्वैरिणौस्वरसात् पुंश्चलौ तस्या विशेषणमब्राह्मणौ क्षत्रियादिरिति यावत्। दासी स्वीया कर्मकरी निष्कासिनौ कुटुम्बनिर्गता पुंश्चलौ। आस्वनवरुद्धास्वपौति मिताक्षराकारः। गम्या इत्यनेन दण्डमाचं निषिध्यते न तु पापमपौति रत्नाकरः। २ घ दण्डमाः। १ ख अभिगमदण्डः । ३ ख निकृता। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy