SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० दण्डविवेकः । ननु वेश्यायाः साधारण्यं न जातितः, अनुलोमजत्वेन तस्याः सवर्णस्त्रौत्वात् । प्रतिलोमजत्वे तु निन्दितकाभ्यासेन तस्या गम्यत्वानुपपत्तेरिति चेत् । उच्यतेपुरुषसम्मोगत्तिवेश्यानामनादिरेव जातिर्लोकप्रसिद्धेः, पञ्चचूडानामका'श्चाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जातिरिति मार्कण्डेयपुराणसम्बादाच्च । तस्मादासां नियतपुरुषपरिणयनविधिविधुरतया परपुरुषाभिगमनेऽपि नादृष्टदोषो नापि दण्डः। पुरुषाणन्तु तदभिगमने दण्डाभावमात्रं न पापाभावः। स्वदारनिरतः सदेति नियमात् पशुवेश्याभिगमने प्रायश्चित्तं विधीयते इति प्रायश्चित्तस्मरणाच्चेति मिताक्षराकारः। तथा प्रसह्य दास्यागमने पञ्चाशत्पणिको दमः । बहूनां यद्यकामाऽसौ चतुर्विंशतिकः पृथक् । प्रसह्य वेश्यागमने दण्डो दशपणः स्मृतः॥ बहूनामिति यद्यकामा सा बहूभिर्भुज्यते तदा पृथक पृथक् चतुर्विंशतिपणो दण्ड इत्यर्थः । नारदः,वेश्यागामी हिजो दण्ड्यो वेश्या शुल्कसमं दमः। १ ख वर्ग स्त्रौत्वात् । २ ख काश्चन। ३ ख पुस्तके प्रसो यादि पतिर्नास्ति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy