SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७४ Acharya Shri Kailassagarsuri Gyanmandir दण्ड़विवेकः । ब्राह्मणौ दृषलं सेवत इत्यनुवृत्तौ, श्रद्रन्तु घातयेद्राजा शयने तप्त आयसे । दहेत् पापकृतं तच काष्ठैः पचैस्तृणैस्तथा ॥ यमः,— वृषलं सेवते या तु ब्राह्मणौ मदमोहिता । तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम् ॥ वध्यघातिनां संस्थाने - वध्यान् घातयन्ति चाण्डालादयस्तैरधिष्ठिते देशे । एतद्दर्शनात् गौतमवाक्ये पुरुषवधे प्रकाशत्वाभिधानात् स्त्रियाः श्वभिः खादनं निभृतमिति भ्रमो हेयः । तथा, - वैश्यं वा क्षत्रियं वा ब्राह्मणौ सेवते यदा । शिरसो मुण्डनं तस्याः प्रयाणं गईभेन तु ॥ इह ब्राह्मण्या नग्मायाः शिरोमुण्डन - सर्पिरभ्युक्षणखरारोहण-राजपथानुवजनानि वसिष्ठेन विहितानि पूता भवतीत्युपसंहारदर्शनात् प्रायश्चित्तरूपाणि । अत एव कल्पतरौ - शूद्रममौ प्राश्येदित्यन्तमेव तद्वाक्यं पठितमतस्तदिहोपेक्षितम् । अत एवानिच्छन्तौ च या भुक्तेत्यादि बृहस्पतिवचनमपि नाचाऽवतारितम् । मनुः, - भर्त्तारं लङ्घयेद्या तु ज्ञातिस्त्रीगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy