SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दगडविवेकः । ब्राह्मणौमिति वैश्ये पञ्चदशदण्डः शूद्राभ्रमादिना निर्गुणजातिमात्रोपजीविब्राह्मणोगमनविषय इति मनुटोकायां कुल्लूकभट्टः। एवञ्च दण्डलाघवं सुघटम् । क्षत्रियन्तु सहस्रिणमिति तस्य रक्षाधिकृतत्वादधिको दण्ड इति सर्वज्ञः । अन्ये तु–पञ्चशतं पञ्चशतमात्रवित्तं सहस्रिणं सहस्रशेषमात्रवित्तमित्यर्थमाहुः । उभाविति, रक्षितां ब्राह्मणों गच्छतोवैश्यक्षत्रिययोः शूद्रवत् सर्वस्वग्रहणसहितं सवाङ्गच्छेदो दण्डः । कटामिना वा दाह इत्यर्थः। कटो वौरणः स चात्र वैकल्पिकः । वरणैः शूद्र लाहितदर्भ वैश्यं शरपत्रैः क्षत्रियं वेष्टयित्वाऽनौ प्राश्येत् । इति वसिष्ठदर्शनात् ।। अयमनयोर्दण्डो गुणवत्ब्राह्मणोगमनविषय इति मनुटोका। तेन सर्वस्व-सहस्रदण्डोक्ते रविरोधो नेयः । आह च नारायणः, निर्गुण-गुणवत्ब्राह्मण्यपेक्षया दण्डहयमिति । तथा, क्षत्रियायामगुप्तायां वैश्ये पञ्चशतो दमः । मूत्रेण मौण्ड्यमृच्छेत्तु क्षत्रियो दण्डमेव च ॥ १ ग दण्डोक्तनाविरोधः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy