________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकोप हारिदण्डः ।
१६९
नन्वनुलामपरदारगमने दण्डस्यापकर्षः प्रतिलोमतहमने तूत्कर्षों युक्तः। प्रकृते तु मतत्रयेपि तद्वैषम्यं प्राप्तमिति चेत् ।
उक्तमत्र कुल्लूकभट्टेन गुणवतो वैश्यस्यायं दण्डो निर्गुणजातिमात्रोपजीवि क्षत्रियायां शूद्रादिभ्रान्त्या गच्छतो बोद्धव्यो दण्डलघत्वादिति। गुप्ते तु ते क्षत्रियावैश्ये इत्यर्थः।
शूद्रायां रक्षितायां सर्वत्र चात्र गुप्तायां यो दण्ड उक्तः सोऽतिगुप्तायां सातिशयो द्रष्टव्यः । गुप्तास्वेवं भवेद्दण्डः सुगुप्तास्वधिकं भवेत्।
इति मत्स्यपुराणदर्शनात्। तथा,– दैजातं वर्णमाविशन्नित्यनुवृत्तौ
वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः। सहसं क्षत्रियो दण्ड्यो मौण्ड्यं शूद्र'स्य चाहति ॥ ब्राह्मणों यद्यगुप्तान्तु गच्छेतां वैश्य-पार्थिवौ । वैश्यं पञ्चशतं कुर्यात् क्षत्रियन्तु सहस्रिणम् ॥ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटामिना ॥ बैजातं वर्णमिति सामान्यमुखमप्यत्र ब्राह्मणोपरं वैश्यश्चेत् क्षत्रियामिति विशेषविधानात्, तेन ब्राह्मणों गुप्तामभिगच्छन् वैश्यः संवत्सरं बध्वा सर्वस्वेन दण्ड्यः क्षत्रियस्तु सहस्रं दण्ड्यो मूत्रेण शिरोऽभिषिच्य मुण्डनीयश्च । मूत्रेण खरमूत्रेण इति मनुटोका।
१ ग मूत्रेण ।
For Private And Personal Use Only