SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ दण्डविवेकः । एतच्च समयाधिक्यमादायैतदनुसारेणाधिको दण्ड इति परमार्थ इति रत्नाकरः । कल्पतरौ तु व्याख्यातम्,संवत्सरमनेनोपभुक्ता परस्त्रीति यस्याभिशापः स सम्बत्सराभिशस्तस्तस्य सम्बत्सरमुपभुक्तायां यो दण्ड उक्तः स द्विगुणः स्यात् । दष्टस्येति न केवलमभिशस्तस्य किन्तु दृष्टस्य स्वरूपतो दोषभाज इति । मनुटौकायान्तु, परस्त्रीगमनदोषेण दुष्टस्य पुंसो दण्डितस्य सम्बत्सरातिक्रमे पुनस्तस्यामेवाभिशस्तस्य पूर्वदण्डात् द्विगुणो दण्डः कार्य इति व्याख्यातम् । व्रात्या प्रभ्रष्टधर्माचारा। अनुपपन्नकर्मधर्भाचारा व्रात्या इति हारीतोक्तरिति रत्नाकरः। __ लक्ष्मौधरोऽप्याह-वात्या अत्यन्तदुराचारा, वध-वन्धोपजीविप्रभृतय इति। अतिक्रान्तविवाहकाला कन्येति हलायुधः। एवमेव मनुटौकायां नारायणः । कुल्लूकभट्टस्तु व्रात्यजाता व्रात्येत्याह। व्रात्यां चाण्डालौञ्च गत्वा ऽदण्डितस्य वत्सरान्त एव गच्छतः “सहस्रन्वन्त्यजस्त्रियम्” । इति मनूक्तो दण्डो १ ग पुस्तके [ ] चिहितांशः पतितः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy