SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकौर्णापहारिदण्डः । १६३ द्विगुणः कार्य इति मनूक्तस्यैवेदमुदाहरणहयम्। तच्चव्रात्यागमने चाण्डालोगमनदण्डप्राप्त्यर्थमिति कुलकभट्टः । नारायणस्त्वाह,विवाहकालेऽप्यपरिणौतया' कन्यया प्रवृत्तरजसा सकृत् संयोगमात्रेण तज्जातीयगमनदण्डात् द्विगुणो दण्डो नत्वन्यचापि सम्बत्सराभिशस्तस्येत्यस्यान्वय इति । यः स्वरूपतो दुष्टो वर्षावच्छिन्नपरस्त्रीगमनेनाभिशस्तः सकृदपि व्रात्यां चाण्डालौमभिगच्छति तस्य वर्षावच्छिन्नपरदारगमनदण्डादिगुणो दण्ड इति कल्पतरुस्वरसः। तथा.मौण्ड्यं प्राणान्तिके दण्डे ब्राह्मणस्य विधीयते । इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ यवाभिगमे प्राणान्तिको दण्ड उक्तस्तत्र ब्राह्मणस्य शिरोमुण्डनमेव दण्ड इत्यर्थः । मत्स्यपुराणे,बलात्सन्दूषयेद्यस्तु परभायां नरः क्वचित् । वधदण्डो भवेत्तस्य नापराधो परस्त्रियाः ॥ अद्रव्यां मृतपत्नौं तु संग्रह्णन्नापराभुयात् । साना परिगृहाण सर्वस्वं दण्डमर्हति ॥ सद्रव्यां तां गृहाणस्तु दण्डमुत्तममर्हति । इति चतुर्थपतिस्थाने कामधेनौ पठितम् । अत्र वध इत्युपलक्षणं यो दण्डो यत्र विहित इत्यर्थः । १ क ख पुस्तके अपरिणीततया । २ ग पुस्तके साध्वीम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy