SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५० www.kobatirth.org दण्डविवेकः । Acharya Shri Kailassagarsuri Gyanmandir पक्कान्नानां कृतान्नानां मद्यानामोदनस्य च । सर्व्वेषां स्वल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ॥ कामधेनौ,— ओदनस्येत्यच श्रामिषस्येति पठितम् । मिताक्षरायामौषधस्येति पठितमुक्तञ्च - ओदनस्य पक्वान्नेन संग्रहादिति प्रतिभाति ॥ श्रच मनूक्तानां मध्वादीनां नारदोक्तानां गोर सादौनां मूल्यद्दिगुण- पञ्चगुण दण्डविकल्पो ऽल्पाल्पदध्यादिविषयतया व्यवस्थित इति प्रतिभाति । मनुः, - यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याञ्च यः प्रपाम् । स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥ कूपात् कूपसमौपात् रज्जुं घटमिति रज्जुं वा घटं वा इति कुल्लूकभट्टः । तच्च रज्जुमेकं घटमेकच द्रव्यमिति रत्नाकरः । कामधेनौ तु — तदित्यग्रे दृष्ट्वा वज्रघटमिति पठितम् । एवमेव हलायुधनिबन्धः । पारिजातेऽपि तथैवेति पठित्वा समाहारद्वन्द्व उक्तः । तस्मिन कूपे समाहरेत् त्यजेत् । शङ्खलिखितौ – अब्राह्मणो ब्राह्मणस्य समिदाज्येध्मानि काष्ठ- तृणोपल'पुष्पफलमूलाद्यपहरन् वा बलादविज्ञानतो' हस्तच्छेदन १ ग योजयेत् । २ ग पुस्तके टोलप – । ३ ग व्यपरिज्ञानतः । For Private And Personal Use Only -
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy