SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । १४६ अग्निरिह लौकिकः। विषये लौकिकः स्यादिति वचनात् । विषये संशये इति रत्नाकरः। लौकिमप्यग्निं चोरयतोऽयं दण्ड इति गोविन्दराजः। तदेतदयुक्तं अल्पापराधे गुरुदण्डस्यान्याय्यत्वात्। तस्मात् वेताग्निं गृह्याग्निं चाग्निटहाद्यश्चोरयेत् तं प्रथमसाहसं दण्डयेदग्निस्वामिनश्चाधानोपक्षयं दापयेदिति कुलकभट्टः। एवमेव नारायणः। विष्णः, सूत्र-कार्यास-गोमय-दधि-क्षौर-तक्र-गुड-तृण-लवणमुद्भस्म-मत्स्य-पक्षि-तैल-दृत-मांस-मधु-विदल-वेणुमृण्मय-लोहभाण्डानामपहर्ता मूल्यादिगुणं दण्ड्यःपक्वान्नानाञ्च । हलायुधेन चिगुणमिति पठितम् । शङ्खलिखितौ,कृतकाष्ठाश्मकौलालचर्मवेचदलभाण्डेषु मूल्यात् पञ्चगुणस्त्रयो वा कार्षापणाः। कृतकाष्ठं घटितकाष्ठं कौलालं कुलालनिर्मितं मृण्मयमिति यावत् । भाण्डपदमश्मादिभिः सम्बध्यते । नारदः,काष्ठभाण्डतणादीनां मृण्मयानां तथैव च । वेणुवैणवभाण्डानां तथा स्वाय्वस्थिचर्मिणाम् ॥ शाकानामामूलानां हरणे फलमूलयोः । गोरसेक्षुविकाराणां तथा लवण-तैलयोः ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy