SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ दण्डविवेकः । __ अष्टशतमष्टाधिकशतं सौता कृष्यमाणा भूमिस्तद्रव्यं हलकुद्दालादि। यथाकालं कर्षणसमये। एवञ्च कालान्तरे दण्डापकर्षो द्रष्टव्यः। तथाच मनुः, सौताद्रव्यापहारे तु शस्त्राणामौषधस्य च । कार्य(फाला)माषोदकानाञ्च राजा दण्डं प्रकल्पयेत् ॥ शस्त्राणां खड्गादौनां औषधस्य कल्याणष्टतादेः कार्थं कृष्यादि फालं तेन कृषिकाले हलाद्यपहारे सति कृषेरभावे यदा बहुशस्यबाधस्तदा दण्डभूयस्त्वमन्यथाऽल्यो दण्डः । एवं शस्त्रादिष्वपि द्रष्टव्यमिति हलायुधः। हृतदानं सर्वत्र पूर्वमुक्तम् । मनुः,पुष्येषु हरिते धान्ये गुल्म-वल्ली-नगेषु च । अल्पेष्टपरिपूतेषु दण्डः स्यात् पञ्च कृष्णलाः ॥ पुष्यं कुसुमादौति मिश्राः। नगो वृक्षः । तथा, परिपूतेषु धान्येषु शकमूलफलेषु च। निरन्वये शतं दण्ड्यः सान्वये ऽर्द्धशतं दमः ॥ निरन्वये ग्रहणहेतुप्रोत्यादिशून्ये इति रत्नाकरः। रक्षकरहिते इति कल्पतरुः । एवमेव हलायुधः। उभयत्र हरणे इति शेषः। __ अत्र फलमूलयोः क्षुद्रद्रव्येषु पाठात् तत्साहचर्येण स्वरूपेण च शाकस्यापि क्षुद्रत्वनिश्चयात् दण्डस्य च *. unia For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy