SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । गोविन्दराजस्तु शतादिति सुवर्णशतादित्यर्थस्तेन शतसुवर्णाधिकद्रव्यहरणे वध इत्याह । तच्चिन्त्यं नारदवाक्ये रत्नानि मरकतादौनौति विवक्षितानि । मुख्यानाचैव रत्नानां हरणे वधमर्हति । इति मनुवचनदर्शनात् । यत्तु – शारौरोऽङ्गच्छेदो वा दण्ड इत्यनुवृत्तौ शङ्खलिखिताभ्यामुक्तं सुवर्णरत्नापहारे इति । तत्र शशरौरदण्डस्ताडनं, अङ्गछेदः कर्णादिछेदः, तदेतत्पञ्चाशदूनविषयं निर्धनविषयश्चेति रत्नाकरः । 19 १४५ यञ्च दण्ड इत्यनुवृत्तौ विष्णुः, रत्नापहार्य्युत्तमसाहसः। इति । तन्मध्यमधनविषयमिति रत्नाकरः । अमुख्योत्कृष्टरत्नविषयत्वेऽपि न विरोधः । शङ्खलिखितोक्तेरपकृष्टविषयत्वात् । अयमच विवेकः,— ताम्रादिषु पणशताधिकेषु ब्राह्मणराजस्वेष्वपहृतेषु अपहर्त्तुर्वधोऽन्येष्वङ्गछेदः। एवं सुवर्णादिषु वधोऽङ्गछेदो वा तथा मुख्येषु रत्नेषु वधोऽन्यचाङ्गछेदः पञ्चाशत्पणादिकेषु ताम्रादिषु हस्तछेदः । तदूनेषु तन्मूल्यादेकादशगुणो धनदण्डः । पञ्चविंशतिपणेषु तेषु कर्पूरादिषु च स्थूलेष्वपहृतेषु तन्मूल्यापेक्षया दशगुणो धनदण्ड इति । - अथ मध्यमद्रव्यापहारे शङ्खलिखितौ – अष्टशतं सौताद्रव्यापहारे यथाकालम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy