SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । महत्त्वात् वचनस्यास्य रत्नाकरे मध्यद्रव्यप्रकरणेऽवतारणाच्च। विरोधे शाकमूलफलानि राजब्राह्मणस्वामिकानि देवताद्यर्थानि यज्ञार्थमुपकल्पितानि दर्लभानि वा विवक्षितानौति प्रतिभाति। नारायणेन तु शाकमूलफलेषु बहुमूल्यान्नोपयुक्तेषु इति व्याख्यातम् । शङ्खलिखितौ, 'एकचक्राहरणे चत्वारिंशत् कटेऽशौतिशतम् । एकचक्रमेकरथाङ्गं चत्वारिंशत्पणा एवाशौतिशतमौत्यधिकं शतम्। अथ क्षुद्रद्रव्यापहारे व्यासः,मध्यहीनद्रव्यहारौ पुष्यमूलफलस्य च । दाप्यस्तद्दिगुणं दण्डमथवा पञ्चकृष्णलान् ॥ मध्यहीनं द्रव्यमन्नादि, कृष्णलशब्देन त्रियवपरिमितं द्रव्यमभिधेयं तच्चात्र सौवर्णं लिखितपरिभाषानुसारात् । गौतमः, फलहरितशाकादाने पञ्चकृष्णलमन्ये । आदाने हरणे दण्ड इति शेषः । अब फलशाकयोरनन्तरोतातिरिक्तयोरिह ग्रहणमतो न तेन विरोधः। अस्तु वा विकल्पः-अन्ये इत्यभिधानात्। स चाभ्यासाऽनभ्यासाभ्यां ग्रहणहेतु-ग्रौत्याद्यतिशयानतिशयाभ्यां व्यवस्थित इति प्रतिभाति । १ घ एकचक्रहरणे। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy