SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ दण्डविवेकः । तथेति समीकरणं देशकालापहृतद्रव्यस्वामिजातिगुणाद्यपेक्षयेति मनुटौका । धरिमं तुलनीयम् । नारायण-सर्वज्ञस्तु, धरिमं तुला तन्मयानां सुवर्णरजतव्यतिरिक्तानां ताम्रादीनामित्यर्थमाह । तथा शतादिति निष्कशतात् । एतच्च घोडशमाषरूप-सुवर्णचतुष्टयरूपनिष्कव्यवस्थया ग्राह्यमिति । तथा पञ्चशत इति ताम्रादिविषय इत्याह । शेषे पञ्चाशदभ्यधिकन्यने । एवञ्च नारदोक्तो मूल्यदशगुणदण्डोऽप्यस्यापि शेषे द्रष्टव्यः। शताधिके च दमो मनूक्तो वध एव । सुवर्णरजतादौनामुत्तमानाञ्च वाससाम् । रत्नानाञ्चैव सर्वेषां शतादभ्यधिके वधः ॥ इति नारदसम्बादात् । कामधेनौ तु मनुवचने दम इत्यच वध इत्येव पठितं मिताक्षरापि तथैव। स चायं वधो ब्राह्मणद्रव्यत्वे मारणं अन्यत्र तु अङ्गच्छेदादिरिति नारायणः । हलायुधोऽप्याह, शतसंख्या चाच पलस्य मन्तव्या वाससाञ्च शतसंख्यात्वं वासोऽवयविनामेव प्रछदपटादौनामिति । मिश्रास्त्वाहुः, हेनो रजतस्य पटदुष्कुलादेर्वा पलशताधिकमूल्यस्यापहर्ता वध्यः शतपलाधिकमूल्यस्यापहर्ता वध्यः पञ्चाशतपलाधिकमूल्यस्यापहर्ता छिन्नहस्तः कार्याः, तदूनस्य तु हर्ता एकादशगुणं तन्मूल्यं दाप्य इति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy