SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ दण्डविवेकः । तथा-चतुर्भिः सेरिकाभिश्च प्रस्थ एकः प्रकीर्तितः ॥ तत्र हेमाद्रिः,- सेरिका कुडवः । तथा कल्पतरुः, सेरिका कुडवः स च हादशप्रसूतिपरिमितः। द्वादशप्रमृतिभिः सेरिका तच्चतुष्टयं प्रस्थ इति समयप्रकाश-रत्नाकर-स्मृतिसागरेधप्युक्तम् । तथा—भूपालपद्धतौ प्रमाणस्थपुरुषस्य प्रमाणस्थकरचरणस्य द्वादशप्रस्मृतिभिः कुडव उत्तरोत्तरं चतुर्गणाः प्रस्थाढकद्रोणा भवन्ति। ततश्चतुःषष्ट्या कुडवैोण इत्युक्तम्। एवमेव कल्पतरुकारः। यत्त पठन्ति, पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम् । हात्रिंशता पलैः प्रस्थो मागधेषु व्यवस्थितः ॥ आढकस्तैश्चतुर्भिस्तु द्रोणः स्याच्चतुराढकः । तथा-सर्वेषामेव मानानां मागधं श्रेष्ठमुच्यते ॥ तदेतन्मागधमात्र इत्याहुः। तन्न, गोपथब्राह्मणसम्बादित्वेन साधारण्यौचित्यात् मागधेष्ठिति व्यवहरणपरम्। एवञ्च श्रेष्ठतापि न परिमाणाधिक्यात्, अपि तु वेदमूलकत्वादिति ध्येयम्। इह प्रकृतमनुवाक्ये वधस्ताडनमङ्गछेदो घातनमिति त्रिरूपः। स च हर्तृस्वामिगुणवत्त्वागुणवत्त्वापेक्षया व्यवस्थित इति कुल्लूकभट्टः। १ क समयप्रदोप-| २ घ पुस्तके व्यवहार-। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy