SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्तियदण्डः। १३५ भविष्यपुराणे, कुम्भो द्रोणद्दयं सूर्यः खारौ द्रोणास्तु षोड़शः । सूर्य इति द्रोणस्य नामान्तरं', केचित्सूर्प इति पठन्ति। विष्णुधर्मोत्तरे कुड़वप्रभृति द्रोणान्तमुक्त्वा,द्रोणैः षोड़शभिः खारौ विंशत्या कुम्भ उच्यते। कुम्भस्तु दशभिः खारौ धान्यसंज्ञा प्रकीर्तिता ॥ __ इत्युक्तम्। विंशत्येति द्रोणरित्यनुषङ्गः । धान्येति यवादीनामपि द्रवद्रव्याणामपि चोपलक्षणं स्कन्दपुराणोय-सामान्याभिधानस्वरसादिति महार्णवकारः। बालभूषणे चण्डेश्वरः,कुडवाद्या वेदगुणा प्रस्थाढद्रोणमानकाः खार्यः । कुम्भो विंशतिखार्या दृष्टो लाके यथाक्रमशः ॥ लाके मिथिलादौ। तदेवं द्रोणहयेन विंशत्या द्रोणैरिति च विविधः कुम्भः । दानविवेके तु पणसहस्रपरिमितः कुम्भ इत्युक्तम् । एवञ्च नानार्थ एव कुम्भशब्दः । वराहपुराणे,पलवयं तत्पस्मृतिर्मुष्टिरेकपलं स्मृतम् । अष्टमुष्टिर्भवेत् कुच्चिः कुञ्चयोऽष्टौ च पुष्कलम् । पुष्कलानि च चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेट्रोण इत्येतन्मानलक्षणम् । १ ग संज्ञान्तरम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy