SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ दण्डविवेकः । भावात् । सन्दशादिछेदविधेरुपस्थितेन ग्रन्थिभेदोत्क्षेप'लक्षणेन निमित्तेनान्वये निमित्तान्तरानपेक्षितत्वाच्च । एवं धान्यापहारे वृहस्पतिः, धान्यापहारौ दशगुणं दाप्यस्तविगुणं दमम् । मनुः,धान्यं दशभ्यः कुम्भेभ्यो हरतोऽप्यधिकं वधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तवनम् ॥ कुम्भो विंशतिः प्रस्था इति रत्नाकरः। विंशतिद्रोण इति मिताक्षराकारः। कुल्लूकभट्टोऽप्याह दिशतो पणो द्रोणः, विंशतिद्रोणः कुम्भ इति। यत्तु घृतद्रोणेन परिमितः कुम्भ इति गोपथब्राह्मणं तट्रवद्रव्यविषयम् । माषकं पञ्चकृष्णलम्, माषकाणि चतुःषष्टिः पलमेकं विधीयते । द्वात्रिंशत्पलिकं प्रस्थं स्वयमुक्तमथर्वणा ॥ आढकस्तु चतुःप्रस्थैश्चतुर्भिोण आढकैः । स्कन्दपुराणे,पलद्दयं हि प्रतिस्तद्दयं कुडवं स्मृतम् ॥ चतुर्भिः कुडवैः प्रस्थमाढकैश्च चतुर्गुणैः । चतुर्गुणो भवेट्रोण इत्येतद्रव्यमानकम् ॥ तमेनं द्रोणं पूर्णपात्रं व्यवहरन्ति । चतुर्वर्गचिन्तामणौ द्रवद्रव्यविषये स्कन्दपुराणमिति कृत्वा वचनमिदमवतारितम् । एवमेव प्रसृति प्रभृति द्रोणान्तमुत्ला १ ग क्षेपणेन । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy