SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ दण्डविवेकः। अथ ज्योतिर्विदो दण्डमाह। बृहस्पतिः, ज्योतिर्ज्ञानं तथोत्यातमविदित्वा तु ये नृणाम् । 'श्रावयन्त्यर्थलाभेन विनेयास्तेऽपि यत्नतः ॥ अर्थलाभेनेति वचनादर्थानुसारौ दण्डः । अथ रजकदण्डः। तत्र मनुः,शाल्मले फलके सूक्ष्मे निर्णिज्यानेजकः शनैः । न च वासांसि वासोभिनिहरेन विवासयेत् ॥ शाल्मले शाल्मलिदारुमये, सूक्ष्मे महणे। निर्णिज्यात् प्रक्षालयेत् । नेजको रजकः, तथा वस्त्रे बड्वा वस्त्रान्तरं निर्णजनस्थानं न नयेत् । न विवासयेत् न विपरीतमाच्छादयेत् परवस्त्रेण परविनियोगं न कारयेदिति यावदित्यर्थ इति रत्नाकरः। नारायणस्तु न निहरेन्न परिवर्त्तयेत् न च विवासयेन चिरं स्थापयेदित्याह। एवञ्चात्र वैपरीत्याचरणादण्डभाग्भवतीति तात्पर्यमिति रत्नाकरः। अत्र मत्स्यपुराणम्,वासांसि फलके सूक्ष्म निर्णेज्यानि शनैः शनैः। अतोऽन्यथा यः कुवात दण्डः स्याद्रप्यमाषकम् ॥ १ घ पुस्तके व्याश्रयन्ति । २ मूले - न च वासयेत् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy