SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । १११ द्यूतमण्डले ससभिके जितमित्यपि तत्परमेव तथैव राजांशपरिकल्पनात् । एवं राजादेशं विना यः स्वेच्छया द्यूतं प्रवर्त्तयेत् स तत्र जितमपि न प्राप्नुयात् न खल्वजिह्माः कितवा राजबलं विना शक्त्या दापयितुमिति नारदौयपादोनश्लोकवाक्यार्थः। एवं स्थिते यस्मिन् राजव्यापारं विना जितोप्यर्थः प्राप्तुमशक्यो राजा च भृतिं विना न व्याप्रियत इत्यन्वयव्यतिरेकाभ्यामवकृतमतो राजभागं परिकल्प्य राजाज्ञामादायैव प्रवर्तितव्यमिति वाक्ययोरेकवाक्यतया तात्प ार्थों गम्यते। __ यच्च नारदीयवाक्यप्रतीके दण्डः श्रूयते तत्र यथा तरिमत्यां नद्यां तरशुल्कभिया बाहुभ्यामुत्तरतस्तथा प्रकृतेऽपि राजदेवखण्डनमेव दण्ड्यमानस्यापराधो न त्वन्यत्। बाहुभ्यामुत्तरन् पणशतं दण्ड्य इति वशिष्ठवचनेनैकमूलकत्वात् तस्माद्राजाज्ञां विना प्रवर्त्तितं द्यूतं वा ततो जयो वा न सिध्यति तत्सिद्धावपि पराजितं न लभ्यते इत्येवमाद्यर्थपरिकल्पने वाक्यस्यादृष्टार्थत्वं स्यात् । तस्माद्राजदण्डमगणयित्वा स्वयं जितार्थसाधनमध्यवसाय राजाज्ञां विनापि कृते द्यूते परिपणितं पराजितेन देयं, यदि तवाक्षा हिरभ्यस्ताः पतन्ति यदि वा मन्मेषस्त्वन्मेषादपसरति तदा शतन्ते ददामोति स्वरसतः प्रकृतिस्थाभ्युपगमेऽपवादकाभावादिति। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy