SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। याज्ञवल्क्यः, राज्ञा संस्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः । अत्र विशेषमाह राज्ञ इत्यनुवृत्तौ गौतमः, पण्यं बणिभिरर्धापचये न देयम् । अर्घायचये मूल्यापचये तत्र पण्यमप्रयच्छन्नपि बणिक न दण्ड्य इति तात्पर्य्यम् । वृहस्पतिः, प्रछन्नदोषव्यामिश्रं पुनः संस्कृतविक्रयो। पण्यं च द्विगुणं दाप्यो बणिक् दण्डं च तत्समम् ॥ प्रछन्नदोषव्यामिश्रमनभिमतद्रव्येण मिश्रितं पुनः संस्कृतं पुरातनमेव सम्भावनादिना' नवौकृतम् । याज्ञवल्क्यः , मृताङ्गलग्नविक्रेतुर्दण्डो मध्यमसाहसः । मृताङ्गलग्नं वस्त्रादि येन तेन म्रियते येन वा मृतो भूष्यते तदल्पमूल्यमपि तव्यमप्रकाश्य विक्रेतुर्मध्यमसाहसो दण्ड इत्यर्थः। तथा, भेषज-स्नेह-लवण-गन्ध-धान्य-गुड़ादिषु । पण्येषु होनं क्षिपतः पणा दण्डस्तु षोड़श ॥ आदिपदेन हिङ्गुमरौचादयो गृह्यन्ते। हौनमपद्रव्यं तदेतविक्रेतव्यद्रव्ये प्रक्षेपमात्र बोडव्यम्। बृहस्पतिवचने दिगुणं पण्यदानं बणिग्दण्डच्च तादृशे विक्रीते सतीत्यविरोधः । इति रत्नाकरः। १ ख पुस्तके शानादिना । ध पुस्तके सम्भारणादिना । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy