________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तयदण्डः ।
अचाऽपद्रव्यप्रक्षेपस्य विक्रयपर्यन्ततायां दोषत्वमन्यथाऽदृष्टार्थत्वाभिपातः। अभिसन्धिमावस्यापि दण्डप्रयोजकत्वकल्पनायामतिप्रसङ्गश्च स्यात्, अतो वचनमिदमल्पव्यामिश्रणपरं श्रुतभेषजादिमात्रविषयं वा। तस्य कस्यचित् स्वरूपेणैवाल्पत्वात् क्वचिदपकर्षस्याल्पस्यैव समवायादिति प्रतिभाति ।
अथ पण्यनिर्माणोपजीविनो दण्डमाह । बृहस्पतिः,
अल्पमूल्यन्तु संस्कृत्य नयन्ति बहुमूल्यताम् ।
स्त्री-बालकान् वञ्चयन्ति दण्ड्यास्तेऽर्थानुसारतः ॥ 'तथा,
हेममुक्ताप्रवालाद्यं कुर्वते कृत्रिमं तु ये। केचे मूल्यं प्रदाप्यास्ते राज्ञे च द्विगुणं दमम् ॥ द्विगुणं विक्रीत-तादृक्द्रव्यमूल्यापेक्षया। दण्ड उत्तमसाहस इत्यनुवृत्तौ विष्णुः,
प्रतिरूपविक्रायकस्य च । प्रतिरूपं कृत्रिममुक्तादि। अब कृत्रिमद्रव्यस्य लघुगुरुभावेन मूल्यतारतम्यादनयोर्व्यवस्था द्रष्टव्या । अथ रत्नाकरे मनुः,
सवकण्टकपापिष्ठं हेमकारन्तु पार्थिवः । प्रवर्त्तमानमन्याये छेदयेल्लवशः शुरैः ॥
१ ग पुस्तके तथेत्यारभ्य हेमेति वचनं पतितं ।
For Private And Personal Use Only