SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्तेयदण्ड्ः । गणिमं पूगादि । कपर्दकादौति हलायुधः । तुलिमं सुवर्णादि । मेयं धान्यादि । क्रियया वाहदोहादिक्रिययोपलक्षितमश्वमहिष्यादि । रूपतः क्रौयमाणं पण्याङ्गनादि । चित्रं वस्त्रादीति हलायुधः । श्रिया दौत्या मुक्तादि । १ Acharya Shri Kailassagarsuri Gyanmandir आगमो देशान्तरौयस्य विक्रय्यवस्तुनो दूरादूर सुगमदुर्गमदेशवर्त्तिनः स्वदेशप्रवेशः । निर्गमः स्वदेशौयपण्यस्य तादृशपरदेशगमनम् । स्थानं चिरमचिरं वा कालमेतस्मिन कौते इयान् भक्ष्यादि व्ययो वृत्त इत्यवस्थानम् । वृद्धिरिदानमेतस्मिन् विक्रयमाणे एतावान् लाभो भवति क्षयो वा सतावतो हानिरिति सव्र्व्वमिदं परामृष्य यथा क्रेतुर्विक्रेतुर्वा अनुचिते लाभहानी न भवतस्तथा राजा क्रयविक्रयौ कारयेदित्यर्थः । च विक्रेतुरुचितं लाभमाह याज्ञवल्क्यः, स्वदेशपण्ये तु शतं बणिक् गृह्णौत पञ्चकम् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयौ ॥ १९ ख ग घ पुस्तकत्रये पण्यमङ्गनादि । ३ घ पुस्तके [ यः स्वदेशोद्भवमेव पण्यं तस्मिन्नेव दिने क्रीत्वा ग्रामान्तरादानौयानयनदिन एव विक्रीणीते [ स पणशतमुल्ये पणपञ्चकम् । विदेशपण्यं क्रौत्वा तस्मिन्नेव दिने विक्रीणौते] स पणशतमूल्ये पणदशकं गृह्णीयात् न ततोऽधिकं दण्डापादकत्वात् । सद्य इत्यभिधानात् विलम्ब्य विक्रये नायं नियम इत्यर्थः । ] चिन्हितांशः पतितः । ££ २ क भक्तादिव्ययः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy