SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । अथ प्रकाशतस्करेषु बणिक विविधः। एकः क्रयविक्रयोपजीवी आपणिकादिः। अपरो द्रव्यनिर्माणोपजीवी सुवर्णकार-चर्मकारादिः। तत्र विक्रेता विविधः कूटव्यवहारौ कूटकारौ च । तयोः कूटव्यवहारी दिविधः स्थावरो जङ्गम इति सम्भूय चत्वारो बणिक्स्वरूपाः। तेषु कूटव्यवहारिणः स्थावरस्य बणिजो दण्डमाह । याज्ञवल्क्या,मानेन तुलया वापि यो हरेदंशमष्टमम् । दण्डं प्रदाप्यो दिशतं वृद्धौ हानौ च कल्पितम् ॥ मानं प्रस्थद्रोणादि, तुला सुवर्णादितुलनदण्डः । एतच्च प्रतिमानस्याप्युपलक्षणम् । तुलामानप्रतिमानैः प्रतिरूपकलक्षितैः । चरन्नलक्षितैर्वापि प्राप्नुयात् पूर्वसाहसम् ॥ इति कात्यायनवचनात् । __तच्च सुवर्णादिमाननिश्चयार्थ राजचिह्नाङ्कितं शिलाशकलादि प्रतिमानेति प्रसिद्धम्। सर्वत्र चाच कूटत्वं विवक्षितं प्रतिरूपकलक्षितैरिति कात्यायनसंवादात् । __ अष्टमांशः परिमातस्य द्रव्यस्य । द्विशतं पणानां हवावित्याद्यपहतद्रव्यस्याष्टमांशापेक्षया यदि वृद्धिदृश्यते यदि वा हानिर्दृश्यते तदा कल्पितं दण्डमपहर्ता दाप्यः । कल्पना च दिशतानुसारेणैव तेनाष्टमादंशादधिकापहारे दिशतादधिको दण्डो न्यूनापहारे न्यून इत्यर्थः । १ क ग बणिविकल्पाः । 12 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy