SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । एवञ्चात्र कात्यायनीयं पूर्वसाहसाभिधानं साहसेषु च शवलिखितादौनां न्यूनाधिकसंख्याकथनमपहृतद्रव्यस्याष्टमांशापेक्षया न्यूनाधिकभावमादाय समञ्जसमिति द्रष्टव्यम्। यत्तु,कूटतुलामानप्रतिमानव्यवहारे शारीरोऽङ्गछेदो वा। इति शङ्खलिखितवचनम्। तत्र शारीरो मुण्डनरूपः, अङ्गछेदः कर्णाद्यन्यतमछेदः। अत्र कल्पे गौरवागौरवाभ्यां विवल्पव्यवस्थितिरिति रत्नाकरः। इह च,__ तुलामानविशेषेण लेख्येन गणितेन च । इति व्यासोक्तयोर्लेख्यगणितयोरपि 'दोषेऽनुक्तोऽपि दिशतादिरेव दण्डस्तुल्ययोगक्षेमत्वात् । एतद्दचनं पठित्वा रत्नाकरादौ याज्ञवल्क्यवचनावतारणाच्च । तथा, समैश्च विषमं यत्र चरेद्दा मूल्यतोऽपि वा । 'स प्राप्नुयाहमं पूर्वं नरो मध्यममेव वा ॥ इति मनुवचने द्वयोः सकाशात् समं मूल्यं तयोरेकस्योत्कृष्टमन्यस्यापकृष्टं पण्यं वैषम्येण ददानः पूर्वसाहसं दाप्यः। समे द्रव्ये क्रेतव्ये क्वचिदधिकं मूल्यं वैषम्येण गृह्णन् मध्यमसाहसं दाप्य इत्यर्थः। इति रत्नाकरः। १ ग अल्पदोषः। २ क ग पुस्तकदथे संप्राप्नयात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy