SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । __ नकुलो जलनकुलः। वभ्रनकुलः स्थलनकुलः। मण्डकेत्यादिर्यथालिखितः पाठः कल्पतरौ दृष्टः। कामधेनौ तु मण्डूक-नकुलादौनामिति पाठः। एवमेव हलायुधनिबन्धः। खञ्जरौटिस्थाने तित्तिरि केति रत्नाकरे पाठः । तद्याख्यानञ्च प्रमादः। वलाकेत्यत्र प्रचलाकेति पठित्वा प्रचलाकः कृकलास इति हलायुधेन व्याख्यातम् । आदिपदादन्येऽपि तिर्यञ्चो गृह्यन्ते । यदा क्षत्रियवैश्यशूद्रा ब्राह्मणं ध्रन्ति तदा तेषां सर्वस्वं गृहीत्वा बधः कार्यः। यदा तेषामेव क्षत्रियादौनां मध्ये तुल्यावकृष्टजातीयबधो भवति-यथा क्षत्रियः क्षत्रियवैश्यशूद्रान् हन्ति, वैश्यो वैश्यशूदौ, शूद्रः शूद्रमिति । तदा यथाबलं यथासामर्थ्यमनुरूपञ्च दण्डमुत्तमसाहसादिरूपं शारौरं वा दण्डं कल्पयेदिति रत्नाकरः। हलायुधेनानुरूपमित्यन्तरमुत्तमसाहसादिरूपं शारौरं वेति शूद्रमध्य एव पठितम् । अत्र शारीरो दण्डोऽङ्गच्छेदो न तु बधः शारौरेण व्यपदेशादन्यथा बध इत्येव यात् इत्येकपक्षः । बधश्च शारीरस्तस्यैव शरीरसम्बन्धात् । आत्मनोऽवध्यत्वात्। शारीरस्त्ववरोधादिौवितान्तस्तथैव च । इति नारदसंवादाच्च । १ क तिकतेरिकेति । ग तिकतेति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy