SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुष्यमारणदण्डः । गोबधश्च व्याख्यातोऽन्यत्रात्रेच्या धेन्वनडहोरन्ते चान्द्रायणं चरेत्। आत्रेय्या बधः क्षत्रियबधेन व्याख्यातः। हंसभास-बहिण-चक्रवाक-वलाका-काकोलूक-मण्डक-नकुलाहि-खञ्जरौट-वर्धनकुलादीनां बधे शूद्रवत् । वैरनिर्यातनार्थमिति यो येन हन्यते स तमवश्यं हन्ति, अतः प्रायश्चित्तं कुर्यात् । तथा मति नासौ तेन हन्यत इति तन्निर्यातनं भवतीत्यापस्तम्बतूचे कपर्दिभाष्यम् । एवञ्चापस्तम्बौयेन समं बौधायनीयस्यैकरूपत्वात् । अथोदासीनं क्षत्रियं हत्वा पूतो भवतीत्युशनःसूत्रसंवादाच्च । यद्यपि प्रायश्चित्तपरत्वमस्य प्रतीयते । तथापि राज्ञ इति लिङ्गात् दण्डपरत्वस्यापि प्रतौतेः प्रायश्चित्तरूप एवायं दण्डः। अभिगमदूषिताया ब्राह्मण्या यथोक्तशिरोमुण्डनादिवत् । अतएव कामधेनौ धर्मपादे चार्थपादे च तुरीयांशे वचनमिदमवतारितम्। कल्पतरौ तु प्रायश्चित्तकाण्डव्यवहारकाण्डयोरवतारितम् ।। आत्रेयौ ऋतुमतौ स्त्री। रजस्वलामृतुस्नातामायोमाहुरचये यदपत्यं भवतीति वशिष्ठदर्शनात्। अविगोचजा चाचेयौ। अत्रिगोत्रां वा नारौमिति विष्णुस्मरणादिति मिताक्षरा। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy