SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवब्राह्मणे अयोक्तप्रकारादपि लघुतरं देवतापरिज्ञान प्रकार माह २१ । अथान्तरतमानि सर्वाणि ब्राह्माणि सामानौति सर्वान्तरतमानि । कृत्स्नसाम्नां ब्रह्मणएवादौ सृष्टेस्तत्तद्दे वताव्याजेन तस्यैव प्रतिपाद्यत्वात्सर्वेषां ब्राह्मत्वम् । अथ साम्नां देवतासम्बन्धविषये ज्ञातव्य रहस्यमाह२२ । अथोपनिषद् | कैषोपनिषदिति दर्शयति २३ | ऋग्व माता साम पिता प्रजापतिः खरः । ऋक् प्रसिद्धा । साम गोत्यात्मकम् । स्वरः क्रुष्टादि: (१८) अस्त्वेवं, किं ततः १ इत्यत आह २४। तद्यान्युक्त आख्यायन्ते मातृतस्तान्याखायन्ते अथ यानि सामत आख्यायन्ते पितृतस्तान्याखयायन्ते अथ यानि खरत - खायन्ते प्रजापतितस्तान्याखायन्ते । ऋक्त आख्यातानि यज्ञायज्ञीय वारवन्तीय प्रभृतीनि । तेषामृगवयवभूतपदेनाख्यानात् । सामत आख्यातानि यौधाजयप्रभृतीनि । खरत आख्यातानि वासदे व्यादीनि । एवं For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy