SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units (१४-१५), 'तप्' (१-२) शब्दाः अनुक्रमेण दृष्टव्याः ] । (१५-१७) अहमेव यस्य परं (परा शक्तिः) तत् मत्परम् (अनादि ब्रह्म) इति रामानुजः; अहं परः (पुरुषार्थः) यस्य सः मत्परः; अहं...येषां ते मत्पराः। (१८) स्वर्ग एव परः (पुरुषार्थः) येषां ते स्वर्गपराः। 553. परम-(१) कामोपभोगपरमाः । (२) निर्वाणपरमाम् । (३) परमात्मा । (४) परमेश्वर । (५) परमेश्वरम् । (६) परमेष्वासः । (७) मत्कर्मपरमः । (८) मत्परमः । (९) मत्परमाः ।-(१-६) [विग्रहपद्धतिभ्यः 'कामोपभोग', 'निर्वाण' (१), 'आत्मन्' (२८), 'ईश्वर' (३-४), 'इष्वास' (१) शब्दाः क्रमेण दृष्टव्याः] । (७) मत्कर्म (मदर्थं कर्म) यस्य परमः पुरुषार्थः सः मत्कर्मपरमः। (८-९) अहं परमः (परा गतिः) यस्य सः मत्परमः । मत्परमाः इति प्रथमाबहुवचनम्। 554. परम्परा–परम्पराप्राप्तम्-परम्परया प्राप्तम् । 555. पराजित-अपराजितः-न पराजितः (कदापि)। 556. परायण-(१) कामक्रोधपरायणाः। (२) तत्परायणाः। (३) प्राणायामपरायणाः । (४) मत्परायणः । (५) मोक्षपरायणः। (६) श्रुतिपरायणाः।-(१-२) [विग्रहपद्धतिभ्यां 'काम' (१), 'तद्' (३) शब्दो क्रमेण दृष्टव्यौ] । (३) प्राणायाम [प्राणानां आयामे (निरोधे)] ये परायणाः (तत्परं अयनं मन्यन्ते, तस्मिन् आसक्तिपूर्वकं प्रवृत्ताः) ते प्राणायामपरायणाः। (४) मयि (मां प्राप्तुं) यः परायणः सः मत्परायणः। (५) मोक्षे यःपरायणः सः मोक्षपरायणः। (६) श्रुत्या (श्रवणे) ये परायणाः ते श्रुतिपरायणाः। 557. परिग्रह-अपरिग्रहः-न परिग्रहः (परिग्रहस्य अभावः)। 558. परिचर्या–परिचर्यात्मकम् -[विग्रहपद्धत्य 'आत्मक' (१) शब्दो दृष्टव्यः । 559. परित्यागिन्-(१) शुभाशुभपरित्यागी। (२) सर्वारम्भपरित्यागी।-(१) शुभाशुभे (शुभं अशुभं च) येन परित्यक्ते सः शुभाशुभपरित्यागी; (२) सर्वारम्भाः (सर्वाः आरम्भाः) येन परित्यक्ताः सः सर्वारम्भपरित्यागी। 560. परिमेय-अपरिमेयाम्-न परिमेया अपरिमेया, ताम् । 561. परिहार्य-अपरिहार्ये-न परिहार्यः अपरिहार्यः, तस्मिन् । 562. पर्यन्त-सहस्रयुगपर्यन्तम्-सहस्रयुगानां (युगानां सहस्रम् सहस्रयुगाः, तेषाम् ) यावदन्तो भवति तावत्। 563. पर्याप्त-अपर्याप्तम्-न पर्याप्तम् । 564. पलायन-अपलायनम्-न पलायनम् (स्थैर्यम् )। 565. पा(पिब्)-(१) ऊष्मपाः। (२) सोमपाः।-(१) (विग्रहपद्धत्यै 'ऊष्म' शब्दो ___ दृष्टव्यः)। (२) सोमं (सोमरसं) पिबन्ति इति सोमपाः । 566. पाणि-शस्त्रपाणयः-शस्त्राणि पाणिषु येषां ते । 567. पाणिपाद-सर्वतःपाणिपादम्-सर्वतः पाणिपादौ (पाणी व पादौ च) यस्य (शरीरे) सः सर्वतःपाणिपादः, तम् । 265 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy