SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥२॥ एतच्छ्रवणमात्रत एव प्रतिवुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म-"जन्म कथं वृथा नीयते ? तावद्भोगसामग्री नास्ति, तर्हि योगः साध्यते। अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्टे लीलावलयरणितं चामरग्राहिणीनाम् । यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥१॥" इति विमृश्य द्वावपि बान्धवौ प्रवव्रजतुः । भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । दर्शवकालिक-उतराध्ययन-दशाश्रुतस्कन्धकल्प- व्यवहार- आवश्यक- सूर्यप्रज्ञप्ति -सूत्रकृत-आचाराङ्ग -ऋषिभाषिताख्यग्रन्थदशकप्रतिबद्धदशनियुक्तिकारतया प्रपथे, भद्रबाहवीं नाम संहितां च व्यरचयत् । तदा आर्यसंभूतिविजयोऽपि चतुर्दशपूर्वी वर्तते । श्रीयशोभद्रसूरीणां स्वर्गगमनं जातम् । भद्रबाहुसंभूतिविजयौ स्नेहपरौ परस्परं भव्याम्भोरुहभास्करी विहरतो भरते पृथक् पृथक । वराहोऽपि विद्वानासीत् , केवलमखर्वगर्वपर्वतारूढः सरिपदं याचते भद्रबाह्वाह्वसहोदरपार्धात् । भद्रबाहुना भाषितः सः-" वत्स! विद्वानसि, क्रियावानसि, परं सगर्वोऽसि, सगर्वस्य सूरिपदं न दद्मः" एतत्सत्यमपि तस्मै न सस्वदे। यतो गुरुवचनममलमपि महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । ततो व्रत तत्याज । मिथ्यात्त गत: पुनजिवेषं जग्राह। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy