SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandir व्रतावस्थाधीतशास्त्रार्थज्ञतया वाराहसंहितादिनवानशास्त्ररचनायां प्रगल्भे, लोकेषु च जगाद-"अहं बाल्ये लग्नमभ्यस्यामि स्म । तद्विचार एव लीनस्तिष्ठामि स्म । एकदा प्रतिष्ठानाहहिः शिलायामकस्यां लग्नं | मण्डयामि स्म । सायममृष्ट एव तस्मिन्स्वस्थानमागत्य स्वपिमि स्म । सुप्तोऽहं तल्लग्नममृष्टं स्मरामि स्म । ततो माटुं तत्र यामि स्म । तत्र लग्नाधिष्ठिते शिलातले पञ्चानन उपविष्टोऽभूत् । तथापि तदुदरदेशे करं निक्षिप्य मया तल्लग्नं मृष्टम् । तावता पञ्चाननः साक्षागास्कर एवाभूत् । तेनाहं भाषितः-'वत्स ! तव दृढनिश्चयतया लग्नग्रहभक्त्या च तुष्टोऽस्मि, रविरहम् , वरं वृणीष्व ।' अथ मयोक्तम्-स्वामिन् ! यदि प्रसन्नोऽसि, तदा निजविमाने चिरं मामवस्थापय, सकलमपि ज्योतिश्चक्र मे दर्शय । अथाहं मिहरेण चिरं स्वविमानस्थः खे भ्रामितोऽस्मि । सूर्यसंक्रमितामृतसंतर्पितेन च मया क्षुत्तृषादिदुःखं न किश्चिदनुभूतम् । कृतकृत्यश्च सूर्यमापृच्छय ज्ञानेन च जगदुपकर्तुं महीलोकं भ्रमन्नस्मि । अहं 'वराहमिहरः' इति वाच्यः।" इत्यादि स्वैरं प्रख्यापयामास । संभाव्यत्वात् लोके पूजां परमामाप्य प्रतिष्ठानपुरे शत्रुजितं भूपालं कलाकलापेन रञ्जयामास । तेन निजपुरोहितः कृतः। यतः गौरवाय गुणा एव न तु ज्ञातेयडम्बरः। वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः॥१॥ - For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy