SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | दश, कविप्रयन्धाश्चत्वारः, राजप्रबन्धाः सप्त, राजाङ्गश्रावकप्रबन्धात्रयः, एवं चतुर्विंशतिः।१ भद्रबाहुवराहयोः, २ आर्यनन्दिलक्षपणकस्य, ३ श्रीजीवदेवमरीणाम् , ४ आर्यखपटाचार्याणाम् , ५ पादलिप्तप्रभूणाम् , ६ वृद्धवादिसिद्धसेनयोः, ७ मल्लवादिनः, ८ हरिभद्रमरीणाम् , ९ बप्पभटिसूरीणाम् , १० हेममरीणाम् , ११ श्रीहर्षकवेः, १२ हरिहरकवेः, १३ अमरचन्द्रकवेः, १४ दिगम्बरमदनकीर्तिकवेः, १५ सातवाहन-१६ वङ्कचूल-१७ विक्रमादित्य-१८ नागार्जुन-१९ उदयन-२० लक्षणसेन-२१ मदनवर्मणाम् , २२ रत्न-२३ आभड-२४ वस्तुपालानां चेति । तेषु प्रथमं भद्रबाहुवराहप्रबन्धःदक्षिणापथे प्रतिष्ठानपुरे भद्रबाहु-वराहाह्रौ द्वौ द्विजौ कुमारी निर्धनी निराश्रयी प्राज्ञो वसतः । तत्र यशोभद्रो नाम चतुर्दशपूर्वी समागतः । भद्रबाहुवराही तद्देशनां शुश्रुवतुः। यथा-भीगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः, तत्त्वस्येह कृते परिभ्रमत रे! लोकाः! मृतं चेष्टितैः। आशापाशशतोपशान्तिविशदं चेतः समाधीयताम् , काप्यात्यन्तिकसौख्यधामनि यदि श्रद्धेयमस्मद्वचः॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy