SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्वमत्र सूरिः । महीधरस्तु राशिल्लसूरि म श्वेताम्बरसरिपदे वर्तते । वायटप्रदेशे विहरति । युवां द्वावेकमतीभूय एकं धर्ममाचरतम् ।” वायटमानीतस्तया सः । द्वौ वान्धवावेकत्रमीलितो । सुवर्णकीर्तिर्भाषितो |मात्रा, वत्स ! त्वं श्वेताम्बर एधि । सुवर्णकीर्तिर्वदति-"राशिल्लसूरिर्दिगम्बराचार्यो भवतु मदनुसरणात्।" एवं वर्तमाने मात्रा द्वे रसवत्यौ कारिते । एका विशिष्टा । द्वितीया मध्यमा कुटुम्बार्था । दिग्वासाः पूर्वमाकारितः । स विशिष्टां रसवती भुते स्वैरम् , कुरसवतीं पश्यत्यपि न । राशिल्लसरिशिष्यो द्वावागतौ । ताभ्यां निर्जरार्थिभ्यां कुरसवतीं विजडू । मात्रा भोजनादनु दिगम्बरः प्रोक्तः-" वत्स ! एते श्वेताम्बराः शुद्धाः, त्वमाधाकर्मचिन्तां न करोषि । एते तु वदन्तिभुजह आहाकम्मं सम्मं न य जो पडिकम्मइ लुद्धो । सव्वजिणाणाविमुहस्स तस्स आराहणा नत्थि ॥१॥ तथैव च पालयन्ति । तस्मादेतेषां मिल, मोक्षमिच्छसि चेत् ।" सुवर्णकीर्तिर्मातृवचसा प्रबुद्धः श्वेताम्बरदीक्षामाददे।' जीवदेवमूरिः' इति नाम तस्य दशसु दिक्षु विस्तृतम् । यतिपश्चशतीसहचरो विहरन भव्यानां मिथ्यात्वादिरोगान् सुदेशनापीयुषप्रवाहेण निर्दलयति। श्रीसरेरेकदा देशनायां योगी कश्चिदागतः। स त्रैलोक्यजयिनी विद्या साधयितुं द्वात्रिंशल्लक्षणभूषितं नरं विलोकयति । तस्मिन्समये ते त्रय एव । एको विक्रमादित्यः, द्वितीयो जीवसूरिः, तृतीयः स एव योगी, नान्यः । राजाऽवध्यः । नरकपाले एकपुटी षण्मासी For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy