SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir & चतुर्विशति ग्रवन्धः ॥८॥ यावद्भिक्षा याच्यते भुज्यते च, लतः सिद्धयति । तेन सरि छलयितुमायातः। सूरीणां मृरिमन्नप्रभावाद्वस्त्राण्येव नीलीभूतानि न पुनर्वपुः । ततो गुरुसमीपस्थवाचकजिह्वा स्तम्भिता । श्रीजीवदेवमारिदृष्टौ स्वजिह्वाया | योगपट्टपर्यस्तिकां बबन्ध । सभ्यलोको विभाय । प्रभुभिः स कोलितः । ततस्तेन खटिकया भूभी लिखितम् "उदयारह उवयारडउ सबउ लोउ करेइ । अवगुणि फियइ जु गुणु करइ विरलउ जणणी जणेइ ॥१॥ ___ अहं तव उछलनार्थमागतोऽभूवम् । त्वया ज्ञातः, स्तम्भितः, प्रसीद, मुश्च, कृपां कुरु,” इत्यादि । ततः | | प्रभुभिर्मुक्तोऽसौ वायटनगरे बहिर्मठी गत्वा तस्थौ । प्रभुभिः स्वगच्छः समाकार्योक्त:-"योगी दुष्टो बहिमंठेऽस्ति अमुकदिशि । तस्यां दिशि केनापि साधुना साध्या या न गन्तव्यमेव"तथेति तन्मे सर्वैः । साध्व्यौ तु द्वे ऋजुतया कुतूहलेन नामेव दिशं गने। योगिना समेत्य चूर्णशक्त्या वशीकृते तत्पार्च न मुश्चतः । प्रभुभिः स्ववसतौ दर्भपुत्रकः कृतः । तत्करच्छेदे योगिनोऽपि करच्छेदः । मुक्त साध्व्यौ । मस्तकक्षालनात्परविद्याविदलनेन सुस्थीभूते ते।। अथान्यदोजयिन्यां विक्रमादित्येन संवत्सरः प्रवर्तयितुमारेभे । तत्र देशानामनृणीकरणाय मन्त्री निम्बो गुर्जरधरादिशि प्रहितो विक्रमेण । स निम्बो वायटे श्रीमहावीरप्रासादमचीकरत् । तत्र देवं श्रीजीवदेवसूरीन्द्रः प्रत्यतिष्टिपत्। अन्ये द्यायटे लल्हो नाम श्रेष्ठी महामिथ्याहा । तेन होमः कारथितुमारब्धः। विप्रा मिलिताः। ॥८ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy