SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir (८) शयेन । हितम् = व्याबाधारहितत्वेन कल्याणमयम् । कुरुष्व = जनय, निरजननिराकारशाश्वतानन्दमयं शिवपदं देहीति यावत् । .तथा च विष्टपे = लोकविषये । अङ्गिनाम् = सांसारिकप्राणिनामिति मिलितार्थः । उञ्चकैः- अत्यन्तम् । हितम् = कल्याणकरम् । पदम् = स्थानम्, मोक्षाद्यात्माकमित्यर्थ : । कुरुष्व = विधेहि, देहीति भावः। अङ्गिनोऽतिहितपदभाजः कुर्विति समुदायार्थः। अथवा अङ्गिनां विष्टपे पदम् = संसाराधिकरणकं स्थानम्, सांसारिकत्वमिति यावत् । उच्चकैः- उत्कृष्टम्। हितम् = कल्याणकरं यथास्यात्तथा, न त्वनिष्ट बन्धादिप्रयोजकमिति भावः । कुरुष्व = संसारिणः सांसारिकत्वं कल्याणाय यथा स्यान्नत्वनिष्टबन्धायेत्येवं यतस्वेत्यर्थः । यद्वा अङ्गिनां पदम् = अङ्गित्वम्, शरीरित्वमित्यर्थः । विष्टपे उच्चकैः हितम् = प्रशस्यं हितकरं वा यथा स्यात्तथा कुरुष्व । अङ्गिनामङ्गित्वं स्वहितमुक्तयादिसाधनतया परमोपकारक यथा स्यान्न तु - दुःखायतनतयाऽहितमित्येवं कुरुष्वेति यावत् । यद्वा अङ्गिनामङ्गित्वं सद्धर्माद्याचरणेन प्रशस्य यथा स्यान्नत्वधर्माचरणेन निन्द्यमित्येवं यतस्वेत्यर्थः। यद्वा विष्टपे उच्चकै हितम् = मुक्त्यादिसाधनभूततया परमोपकारकम् । अङ्गिनां पदम् = अङ्गित्वम् , मानुष्यकमिति यावत् कुरुष्व । मनुष्यभवलाभे हि जीवानां मुक्तिलाभसम्भवो न तु भवान्तरेणेति तस्याभिलषणीयतया तस्कुरुष्वेति प्रार्थनम् ॥ ४ ॥ १ . समस्तपदविग्रह:-सुवर्णकान्ते.! = सुवर्णस्य कान्तिरिव कान्तिर्यस्य स तादृशः. यद्वा, वर्णो रूपम्, स च कान्तिः प्रभा च वर्णकान्ती, शोमने वर्णकान्ती यस्य स तादृशस्तत्सम्बोधने। विज्ञाननिविष्ट! = विज्ञाने निविष्ट स्तत्सम्बोधने । विज्ञानेतिपृथक्पदान्वयेन व्याख्याने तु । For Private And Personal Use Only
SR No.020149
Book TitleChaturvinshati Jin Stav
Original Sutra AuthorN/A
AuthorJinprabhsuri, Ashokchandravijay
PublisherShree Sangh
Publication Year1957
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy