SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shrik Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ३२०० चरक-संहिता। [ विषचिकित्सितम लेहः कोलास्थ्यञ्जनलाजोत्पलघृतर्वमिं हन्ति । वृहतीद्वयादकीपत्रधूमवर्तिस्तु हिक्कानी ॥ शिखिबहबलाकाथीनि सर्षपाश्चन्दनञ्च घृतयुक्तम् । धूमो गृहशयनासनवस्त्रादिषु शस्यते विषमित् ॥ घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषकुसुमं वा। धूमोऽगदः स्मृतोऽयं सर्वविषन्तः श्वयथुहृच्च ॥ जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पस रसाः। श्वेता धूमा उरगाखुकीटवस्त्रक्रिमिहराः स्युः ॥ २५ ॥ तरुणपलाशनारं स्तं पचेच्चूर्णितः सह समांशैः । लोहितमृद्रजनीद्वयमधुकसुरसशुक्लमञ्जरीभिः॥ कपित्थरसयुक्तमुग्रलवणं सावञ्चलमित्येकः। इति द्वौ समधुसितौ पातव्यो। लेह इत्यादि। कोलास्थिमज्जादिभिलहो विषे वमिं हन्ति। अत्र घृतेन लेहः। वृहत्यादीनां त्रयाणां पत्रं पिष्ट्वा धूमपानार्थी वर्तिः कार्या हिक्कानी। शिखीत्यादि। शिखिनो बह पुच्छं, वकस्यास्थीनि, शिखिपुच्छादिचतुष्कं कुट्टयिखा घृतयुक्तं गृहादिषु धूपयेत्। स च धूमो विषजित् गृहादिषु शस्यते । घृतेत्यादि। नतं कुष्ठञ्चेति द्वे घृतयुक्ते धृपयेदयमेको धूमः । भुजगपतिशिरो दर्वीकरादिसर्पस्य मस्तकं शुष्कीकृत्य शिरीषपुष्पञ्चैकी. कृत्य धूपयेदयश्च धूमोऽगदः स्मृतः । जखित्यादि । जतु लाक्षा। सेव्यमुशीरम् । ककुभोर्जुनस्तस्य पुष्पम् । श्वेता श्वेतापराजिता। एतान् पिष्ट्वा धृपयेत् । प्रत्येकमेषां धूमा उरगादिहराः स्युः। वस्त्रक्रिमिवस्त्रे जाता यूकाः॥२५॥ गङ्गाधरः-तरुणेत्यादि। पलाशस्य तरुणं वृक्षं छिखा पाटयित्वा संशोष्य क्षारं कृषा चतुर्गुणे षड़ गुणे वा तोये गोलयित्वकविंशतिवारं परिस्राव्य सतं तज्जलं चतुर्गुणं लोहितमृदादिभिः समांशैश्चूर्णितैः सह पचेत् । पराजिता। कोलमध्यं बदरमज्जा। भुजगपतिशिर इति द्विमुखसर्पशिरः। पलाशक्षारसुतमिति भारंकल्पेन परिस्राव्य धारितम्, लोहितमृत् गैरिकम्, सुरसमञ्जरी पर्णासभेदः ॥ २४-२६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy