SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः ] चिकित्सितस्थानम् । ३१६६ सर्वग्रहा न तत्र प्रभवन्ति नचाग्निशस्त्रनृपचौराः। लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्स्यस्ति ॥ संपिष्यमाणे चात्रेमं सिद्धमन्त्रमुदाहरेत् । मम माता जया नाम जयो नामेति मे पिता। सोऽहं जय-जयापुत्रो विजयोऽथ जयामि च ॥ नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे । सनातनाय कृष्णाय भवाय विभवाय च ॥ तेजो वृषाकपेः साक्षात् तेजो ब्रह्मन्द्रयोर्यमे । यथाहं नाभिजानामि वासुदेवपराजयम् ॥ मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम् । अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम् ॥ निहिनिहि मिनिमिनि संसृष्टे रक्ष सव्व भेषजोत्तमे स्वाहा ॥ २४ ॥ ___ महागन्धहस्तीनामागदः॥ ऋषभकजीवकयष्टीमधुकोत्पलधान्यकेसराजाज्यः। ससितगिरिकोलमध्याः पेयाः श्वासज्वरादिहराः॥ हिङ्ग च कृष्णायुक्तं कपित्थरसयुक्तमुग्रलवणश्च । समधुसितौ पातव्यौ ज्वरहिकाकासश्वासनौ ॥ कार्मणमन्त्राः परद्रोहोपायकुमन्त्रा भजन्ति द्रोहाय नाथर्वणोप्याभिचारिकमन्त्रा न भजन्ति। संपिष्यमाणेऽत्र निगदै सिद्धमन्त्रमिममुदाहरेत् । यो वैद्यः पुष्य नक्षत्रे गोपित्तेनागदमिमं पिंष्यात्, स इमं वक्ष्यमाणं सिद्धमन्त्रं पठन् पिंष्यादिति। तन्मन्त्रमाह-मम मातेत्यादि। स्वाहान्तोऽयं मन्त्रश्चतुर्भिः श्लोकै निहीत्यादुत्तरैरिति । महागन्धहस्त्यगदः ॥२४॥ गङ्गाधरः-ऋषभकेत्यादि। ऋषभकादयः सितगिरिमृत्कोलमज्जसहिताः पिष्टाः पेयाः श्वासज्वरादिहराः। हिङ्कित्यादि कृष्णायुक्तं हिड इत्येकः । चक्रपाणिः-ऋषभकेत्यादिना विषोपद्रवश्वासादिचिकित्सोच्यते। सितगिरिः श्वेता For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy