SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०श अध्यायः चिकित्सितस्थानम्। छर्द पत्थितानाञ्च चिकित्सितात् खात् चिकित्सितं काय्यमुगद्रवाणाम्। अतिप्रवृत्तासु विरेचनस्य कातियोगविहितं विधेयम् ॥ छर्दि प्रसङ्गात् पवनो ह्यवश्यं धातुक्षयाद वृद्धिमुपति तस्मात् । चिरप्रवृत्तास्वनिलापहानि कार्याण्युपष्टम्भनवृहणानि ॥ सर्पिगुडाः क्षीरविधिघृतानि कल्याणकाषणजीवनानि। वृष्यास्तथा मांसरसाः सलेहा श्छदि चिरोत्थां प्रशमं नयन्ति ॥ ३१ ॥ गङ्गाधरः-छई प्रत्थितानामित्यादि। छ? पत्थितानामुपद्रवाणां जरादीनां स्वाचिकित्सिताचिकिसितं कार्यम्। एतेन सर्वेषामेवोपद्रवाणां स्वस्वचिकित्सा कार्या भवति। अतिप्रवृत्तासु छर्दिषु विरेचनस्यातियोगविहितं कर्म विधेयं कर्त्तव्यम्। छर्दीत्यादि। छरतिप्रसङ्गात् धातुक्षयादवश्यं पवनो वृद्धिमुपैति। तस्माचिरपत्तासु छद्दिषु अनिलापहानि उपष्टम्भनानि हणानि च कर्माणि कार्याणि भवन्ति, तान्याहसर्पि रित्यादि। सर्पिगुंडाः क्षतक्षीणचिकित्सितोक्ताः क्षीरविधिश्च युतानि। गन्धमित्यादिना गन्धादीनां प्रियाणामुपयोगेन छाः प्रशमे सति । तजो हि रोग इति गन्धादीनां सात्म्यजनितरोगो जेतु सुख एव भवति। मूलव्याधेः महात्ययस्य जितत्वादित्यभिप्रायः। सुखमेव जेतुमिति पाठे सुखं यथा भवति तथा जेतु (पर्यन्तं )-मिति शेषः ॥३०॥ चक्रपाणि:-अतिप्रवृत्तास्वित्यादि। अतिप्रवृत्तासु छदिषु विरेचनस्यातियोगे यत् कर्म विहितं संशोधनव्यापत्तिसिद्धौ तदिह विधेयमित्यर्थः । धमिप्रसङ्गात् छर्दपनुबन्धात् पवनस्य वृद्धिर्भवति । तस्रोपस्तम्भनं छीनां पक्मस्य वा वृहणं च्यवनप्राशाल्यो लेहाः ॥३१॥ ३९१ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy