SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३११६ चरक-संहिता। [छद्दि चिकित्सतम एषा पृथक्त्वेन च या क्रियोक्तातां सन्निपातेऽपि समीक्ष्य वुद्धया। रोग दोषाग्निबलान्यवेक्ष्य कुर्य्याद्भिषक् शास्त्रविदप्रमत्तः ॥२६॥ मनोऽभिघाते तु मनोऽनुकूला वाचः समाश्वासनहर्षणानि । लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारयुक्ताश्च हिता विहाराः॥ गन्धा विचित्रा मनसोऽनुकूला मृतपुष्पयुक्ताम्रफलादिकानाम् । शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः पाइवरागलेहाः ॥ यूषा रसाः काम्बलिकाः खड़ाश्च मांसानि धाना विविधाश्च भक्ष्याः। फलानि मूलानि च गन्धवर्णरसैरुपेतानि वमिं जयन्ति ॥ गन्धं रसं स्पर्शमथापि शब्दं रूपञ्च यद यत् प्रियमप्यसात्म्यम्। तदेव दद्यात् प्रशमे हि तस्य तज्जो हि रोगः सुख एव जेतुम् ॥३० गङ्गाधरः-एषेत्यादि। यषा भया छः पृथक्त्वेन वातादिजायाः क्रिया उक्ता शास्त्रविदप्रपत्तो भिषक् सन्निपातेऽपि छर्दिरोगे बुद्धया समीक्ष्य तां क्रियां रोगादीन्यवेक्ष्य कुर्यादिति ॥२९ ।। गङ्गाधरः-पञ्चमच्छद्दि चिकित्सामाह-मन इत्यादि। मनोऽभिघाते द्विष्टाथै संयोगजातायां छा लोकप्रसिद्धानां हर्षजनकाख्यायिकादीनामितिहासपुराणादाक्तानां श्रुतयः शृङ्गारयुक्ताः शृङ्गाररसोपयुक्ता विहारा न तु शृङ्गारः। गन्धेत्यादि। मनोऽनुकूला विचित्रा गन्धास्तथाम्रफलादीनां पुष्पयुक्ता मृत् गन्धग्रहणे हिता इति । शाकानीत्यादि। मनसोऽनुकूला इत्यनुवर्तते। मनोऽनुकूलानि शाकानि मनोऽनुकूलानि भोज्यानि अथ एवं सर्वाणि पानकादीनि मनोऽनुकूलानि विद्यात् । गन्धमित्यादि। गन्धादिकं यद् यत् प्रियमस्य नरस्यासात्म्यश्च तदेव तस्य प्रशमे दद्यात्। कस्मात् ? हि यस्मात् तज्जो यस्य यत् प्रियमथ चासात्म्यं तदसात्म्यजो रोगस्तदसात्म्यस्य प्रियस्य गन्धादेदानेन जेतु सुख एव भवति ॥३०॥ (१) चक्रपाणिः- यषेत्यादिना सानिपातिकी चिकित्सा उच्यते। समीक्ष्येति प्रत्यक्षीकृत्य । दोषर्तु रोगाग्निवल निरीक्ष्येति दोषादीनां बलं वीक्ष्य यबलवत् तत्प्रधानचिकित्सा कर्त्तव्या । रोगइछहिरेव ॥ २९॥ चक्रपाणिः--मनोऽभिघात इति लोकप्रसिद्धाः श्रुतय इति लौकिकार्थानुगताः भाख्यायिका इति। विहाराः क्रीड़ाः। लेहा व्यानरूपा लेहाः। गन्धवर्णरसः उपेतानि प्रशस्तगन्धादि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy