________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः
चिकित्सितस्थानम् । २६८३ कटुका रोहिणी मुस्तं हरिद्र वत्सकात् फलम् । पटोलं चन्दनं मूर्खा त्रायमाणां दुरालभाम् ॥ सपिप्पली पर्पटकं भूनिम्बं देवदारु च। पिष्ट्राक्षमात्रैस्तैः सर्पिः-प्रस्थं क्षीराढ़के पचेत् ॥ रक्तपित्तं ज्वरं दाहं श्वय, सभगन्दरम्। अर्थास्यस्मृग्दरञ्चैव हन्याद् विस्फोटकांस्तथा ॥ १५ ॥
कटुकायघृतम् । पथ्याशतरसे पथ्या-वृन्ताईशतकल्कवान् । प्रस्थः सिद्धो घृतात् पेयः स पाण्डामयगुल्मनुत् ॥ १६ ॥
पथ्याघृतम् । दन्त्याः शतपलरसे पिष्टैर्दन्तीशलाटुभिः। तद्वत् प्रस्थो घृतात् सिद्धः प्लीहपाण्डतिशोफजित् ॥ १७ ॥
दन्तीघृतम्। गङ्गाधरः-कटुकामित्यादि। कटुका रोहिणी कटुरोहिणीम् । एतरक्षमात्रः कल्कः क्षीराढ़के षोड़शशरावे दुग्धे घृतप्रस्थं विपाचयेत्। इति कटुकाय घृतम् ॥१५॥
गङ्गाधरः-पथ्येत्यादि। पथ्यायाः शतपलस्य रसेऽपां द्रोणे पक्त्वावशषे षोड़शशरावे पथ्यान्ताद्धशतकल्कवान् पथ्याया वृन्तानामद्धेशतं पश्चाशत्पथ्यानां हन्तानि कल्कीकृत्य घृतात् प्रस्थः सिद्धः पेयः। पथ्याघृतम् ॥१६॥
गङ्गाधरः-दन्त्या इत्यादि। दन्त्याः शतपलस्य मूलस्यापां द्रोणे पकस्य पादावशेषे षोड़शशरावे रसे दन्तीशलाटुभिर्दन्त्या आमफलैः पिष्टः पादिक कल्कै तात् प्रस्थः सिद्धस्तद्वत् पेयः प्लीहादिजित्। दन्तीघृतम् ॥१७॥ · चक्रपाणिः-पथ्याशतरसेन क्वाथः कर्तव्यः। अत्र च तथा काथार्थ जलं देयं यथा चतुर्भागावशिष्टं सत् घृतचतुर्गुणं भवति, अत एव द्रोणमानं जलं देयम्। पथ्यावृन्ताईशतं हरोतकोफलबन्धनार्द्धशनम्। अन्ये तु पथ्याचूणं हरीतकीफलस्यैव चूर्ण तत् अस्थिशून्यमित्याहुः॥१५॥१६॥
चक्रपाणिः-दन्त्या इत्यादौ दन्त्याः क्वाथः घृताचतुर्गुणं स्थाप्यः । तन्त्रान्तरदर्शनात् प्रस्थमान एवान काथो भवति। उक्तं ह्यन्यन निकुम्भकुड़वक्वाथ-प्रस्थ तत्कल्कसंयुतम्। सर्पिप्रस्थं पचेत लोह कामलापाण्डुरोगनुत्" ॥ १७ ॥
For Private and Personal Use Only