SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८२ चरक-संहिता। पाण्डुरोगचिकित्सितम् ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत् । शालीन् सयवगोधूमान् पुराणान् यूषसंहितान् ॥ मुद्गादकीमसूरागर्जाङ्गलैश्च रसहितैः। यथादोषं विशिष्टश्च तयोभैषज्यमाचरेत् ॥ कल्याणकं पञ्चगव्यं महातिक्तमथापि वा। स्नेहनाथं घृतं दद्यात् कामलापाण्डुरोगिणे ॥१३॥ दाडिमात् कुड़वं धान्यात् कुड़वाई पलं पलम् । चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा ॥ तः कल्कैविंशतिपलं घृतस्य लिलाढ़के। सिद्धं हृत्पाण्डुगुल्माशः-प्लीहवातकफार्त्तिनुत् ॥ दोपनं श्वासकासन्नं मूढ़वाते च शस्यते। दुःखप्रसविनीनाञ्च बन्ध्यानाञ्चैव गर्भदम् ॥ १४॥ दाडिमाद्यघृतम्। . तिक्तैर्विरेचनः शोध्यः स्यात्। ताभ्यां पाण्डामयि-कामलावद्भयां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत् । मुगाढकीममुराद्यः कृतयषसंहितान् पुराणान् सयवगोधूमान् शालीन् दापयेत् । जाङ्गलैश्च हितैमांसरसः शालीन दापयेत् । तथा यथादोषं विशिष्टश्चासाधारणं भैषज्यं तयोः पाण्डामयि. कापलावतोराचरेत् । कामलापाण्डुरोगिणे स्नेहनाथम् उन्मादोक्तं कल्याणकं घृतं कुष्ठोक्तं पञ्चगव्यमथवा महातिक्तं घृतं दद्यादिति । इति चिकित्सासूत्राणि ॥१३ गङ्गाधरः-दाडिमादित्यादि। दाडिमफलखचः कुड़वं चतुष्पलं, धान्यात कुड़वाद्ध पलद्वयं, चित्रकात् पलं, पलं शृङ्गवेराच्च, पिप्पल्यष्टमिका कर्षमानम्। ते कल्क तस्य विंशतिपलं सलिलाढके पचेत् । अत्र केचित् पठन्ति तत्रिंशतपलं कल्कैरिति कल्कवाहुल्यानुभवात् दाडिमादिघृतम् ॥१४॥ इत्यादिना विरेचनं वक्ष्यति । ताभ्यामिति पाण्डुरोगकामलाभ्याम्। ताभ्यां संशुद्धकोष्ठाय इति पाठपक्ष साभ्यामिति वमनविरेचनाभ्याम्। विशिष्टभैषज्यमिहैव कामलायां पाण्डुरोगे च वक्ष्यमाणं ज्ञेयम् ॥१३॥ चक्रपाणिः-दाडिमेत्यादौ अष्टमिका द्विकर्षमुक्ता; । उक्तं हि 'द्वे सुवर्णे पलाई स्यात् शुक्ति रष्टमिकापि च' इति ॥१४॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy