SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६३० चरक-संहिता। कुष्ठचिकित्सितम् सर्व एव दोषदृष्याः ? अस्त्वेवं दीपकलिका विवह्निस्तद्वत् कोऽपरो व्याधिरूपः स्याच्छारीरो भाव इति। तत्र चेदुच्यते-दोषदुष्टधातुभ्यो विशिष्टापररूपो यः स एव व्याधिदोषास्तु तैलवर्त्तिवदिति । तत् कथं सप्तको द्रव्यसंग्रहः संगच्छते ? चतुष्क एव द्रव्यसंग्रहः स्यात्। यदि छत्रिणो गच्छन्ति माषराशिरिति स्यात् तर्हि सप्तको हेतुसंग्रह इत्युच्यताम् । किञ्च यदि वातादयो न द्रव्यभूतकारणानि भवन्ति कथं तर्हि पकव्रणशोथात् कफायनेकं पूयं निःसृतं पश्यामः न हि तत्र शारीरो लसीकादिक्लेदो भवति पूयः, उक्तं हि नर्तेऽनिलाद्रुङ न विना च पित्तं पाकः कफश्चापि विना न पूय इति। तथा सश्लेष्मा पवनः शुद्धः कसनात् कास उच्यते। तथा स्वधातुवैषम्यनिमित्तजा ये विकारसङ्घा बहवः शरीरे। न ते पृथक पित्तकफानिलेभ्य आगन्तवस्ते तु ततो विशिष्टा इति। आगन्तुः तदात्वे तु व्यथापूर्वः केक्लो भूखा पश्चानिजैदोषैरनुबध्यते, कश्च स यः पूर्व केवलो भवत्यागन्तुरिति चेदुच्यते, तद् दुःखमेव पूर्व शारीरं वा मानसं वाभिघाताभिचारादिना पूर्व शरीरे पश्चान्मनसि जायते तच्चाधिभौतिकं, यदुक्तं सुश्रुते प्रागभिहितं तददुःखसंयोगा व्याधय इति। तच्च दुःखं त्रिविधम् आध्यात्मिकमाधिभौतिकमाधिदैविकमिति। तत् तु सप्तविधे व्याधावुपनिपततीत्यादुक्त्वा संघातप्रवृत्ता य आगन्तवो दुर्बलस्य बलवद्विग्रहास्तेऽपि द्विविधाः शस्त्रकृता व्यालकृताश्च। त एवाधिभौतिका इत्युक्तम्। तत्र निपतितं दुःखमाधिभौतिकमिति । अत एवोक्तं स्वयं विकारो दुःखमेव खिति । तदुत्तरकाल निजैर्दोषैरनुबध्यते न वाताद्यात्मकमित्यभिप्रायेणोक्तमागन्तवरते तु ततो विशिष्टा इति। अत्र दुःखवच्छारीरेऽपि यत् दुःखमाध्यात्मिकमुपनिपतति, तदेव व्याधिस्तदाधारभूतकारणं दोषादिकमिति चेत् सत्यं, सर्वेषां प्राणिनामात्मा हृदि निहितः स एव पुरुष एतत्स्थलपुरुषरूपेण जायते तत्र शुक्रशोणितरसाः किमाधारभूता हेतव उत समवायिहेतवः ? आत्मा ह्यविशेषः मनःशरीरसंयोगात् तु विशिष्टत्वेनोपलभ्यते । यतस्तु पञ्चमहाभूतशरीरिसमवायः पुरुषस्तद्वत् सव्र्वत्राशारीरव्याधेदोषदृष्यदुःखसमुदायात्मकखात् दोषा दृष्याश्च गुणकश्रियाः समवायिहेतव इष्यन्ते, ते हि विकृतिमापन्नाः स्थानविशेषसंश्रया दृष्यविशेष प्राप्य संयोगविशेषं तेन गखा दुःखविशेषमुपनिपातयन्तः एतान्येव सप्त कारणानि, यदुक्त.... रक्तं लसीका त्वङ मांसं दूप्यं दोयास्त्रयो मलाः। विसर्पाणां समुत्पत्तौ विज्ञ याः सप्त धातवः' इति, तथापि कुष्ठं चिरक्रियैः स्थिरैर्दोषैर्जन्यते। विसर्पस्तु विसरणशील इति विशेषः। अन्ये तु विसर्पा वातादिभिरेकैकशोऽपि भवन्तीत्याहुः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy