________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
चिकित्सितस्थानम्। .
२६३१
तद्विशिष्टापरापूव्वैस्वरूपा ज्वरातिसारादिरूपेण परिणम्यन्ते, यथा मृज्जलबालुकादयो घटादिरूपेण। तेषां निहरणादिनाल्पीभावेऽल्पाकृतिबलो व्याधिः स्यात् ततोऽपि संशमनादिना प्रकोपशमनस्वस्थानगमनात् निश्चेष्टसमवायिकारणगुणविशेषसंयोगरूपसम्पाप्तिनाशाद बिनाशः। यथात्मशरीरसं योगेन जातस्य पुंसः समवायिकारणानामात्मशरीराणां संयोगभङ्गादतिमृत्युमुक्तिः उच्यते सूक्ष्मशरीरिशुक्रशोणिताहाररससंयोगात् स्थूलः पुमान् जायते तच्छक्रशोणितरसजस्य स्थूलशरीरस्य लङ्घनरोगशोकादिवमनविरेचनादिभिः समवायिकारणशारीरभावाणामल्पलात् कृशत्वं सूक्ष्मशरीरिस्थूलशरीरसंयोगस्य निश्चेष्टसमवायिकारणस्य गुणविशेषस्य नाशादस्य स्थलपुरुषम्य मृत्युरिति । देवनरतिय्यंगयोनिपशुपक्षिमेकादिपुरुषवद्विशिष्टो व्याधिः ज्वरातिसारशोथादिकः आत्मवत् सर्वत्र दुःखमुपनिपतति। अत एवाह ततः कुष्ठानि जायन्ते इत्यादि। तत इति जनिकत्तः प्रकृतौ खल्वपादाने पञ्चमी न तु निमित्ते। ननु विसष्वप्येष सप्तको द्रव्यसंग्रहो दृश्यते यद वक्ष्यते रक्तं लसीका खङ मासं दृष्यं दोषास्त्रयो मलाः। विसर्पाणां समुत्पत्ती विज्ञ याः सप्त धातव इति, तत्र लसीका चोदकधातुरुच्यते तत् कुतोऽनयोः कुष्ठविसर्पयोः भेदः स्यात् इति ? उच्यते, कुष्ठं किञ्चिद्विकाशिगुणैश्विरकारिस्थिरगुणबहुलैः विरोध्यन्नपानादिभिनिष वितैः दुष्टा दोषाश्चिरकर्मस्वभावाः स्थिरत्वगुणमापन्ना दृष्यान् दूषयिता अप्रबलरक्तपित्ततया जनयन्ति। विसपन्तु लवणाम्लकटष्णदध्यालराग-पाड़वशुक्तसुरासौवीरादिभिः विकाशिगुणैरस्थिरगुणबहुलैनिषेवितैदुष्टा दोषा आशुप्रसारस्वभावा अस्थिरत्वगुणमापन्ना दूष्यान् दूषयित्वा प्रबलरक्तपित्तात्मकतया जनयन्ति, विप्रगुरुधर्षणमपि कर्मणाश्च कुष्ठेहेतुत्वं सत्रैवास्ति विसर्प तु तन्न प्रतिनियतं दृश्यते इति भेदः। केचित् तु पृथक्त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रय इति वक्ष्यमाणवचनमुपन्यस्य एकादिदोषजो विसर्पः कुष्ठं सव्वं त्रिदोषजमेवेति भेदमाहुस्तन्न तद्वचनार्धात् पूर्वम्-स च सप्तविधो दोषैविज्ञ यः सप्तधातुक इत्यर्द्धवचनेन सर्वेषां विसर्पाणां सप्तधातुकखवचनादुल्वणदोषेण तु कुष्ठवत् वातिकादिव्यपदेशात ॥३॥
यदुक्तं-'पृथक् वयः विभिश्चैको विसर्पा द्वन्द्वजास्त्रयः' इति वचनावर्णयन्ति। सिदोषत्वेऽपि विसर्पणान्नैकदोषजकुष्ठवत्। एकदोषतादिव्यपदेशस्तवोच्यते ॥३॥
For Private and Personal Use Only