SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः चिकित्सितस्थानम् । २६२६ वातादयस्त्रयो दुष्टास्त्वगरक्तमांसमम्बु च दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रहः ३॥ दर्पादिवागभिरन्यैश्च कर्मभिरभिभवताम् । पापं कम्मे च कुर्वतामिति - विभादिधर्षणे न पापकर्माकरणे लब्धे पुनर्विमानित्यादिवचनेन विवादिधर्षणस्य कुष्ठहेतुत्वं तद्यतिरिक्तपापविशेषस्य च न तु पापसाधारणस्य कुष्ठहेतुखमिति शापितम्। तदुक्तमन्यत्र कुष्ठप्रतिपातकीति। शीलार्थकृत्प्रत्ययैरेषां प्रायेण सातत्यनिषेवणं कुष्ठहेतुने कचित् किश्चिन्निषेव्यमाणं कुष्ठहेतुर्भवतीति शापितम्। हेतुमुक्ता द्रव्यमाह-वातादय इत्यादि। एभिनिषेवितेभ्यस्तेभ्यो विरोध्यन्नपानादिभ्यः कारणेभ्यो व्यस्तसमस्तेभ्यो हेतुभ्यो दुष्टास्त्रयो वातादयः त्वगरक्तमांसमम्बु च स्वेदवसालसीकादिकं दृषयन्ति। इति स वै सप्तको वातादिदोषखगादिदूष्यः सप्तभिर्निष्पादितो गणः कुष्ठानां द्रव्यसंग्रहः । कर्मगुणाश्रयसमवायिकारणानां संग्रहः संक्षेप इत्यर्थः । अत्र वातादय इत्युक्त्या त्रयाणां वातपित्तश्लेष्मणां लाभेऽपि त्रय इति पुनर्वचनं सर्वेषु कुष्ठेषु मिलितास्त्रयो वातपित्तकफा उक्तैहेतुभिर्दुष्टा भवन्तीति ज्ञापनार्थम् । तर्हि किं खग्रक्तमांसमम्बु चेति चखारो धातवश्चवार इति पदाभावात् पृथक् पृथक् दुष्टं भवन्ति ? उच्यते, तैहेतुभिर्मिलितास्त्रयो दोषा दुष्टाः सन्तः पृथक् पृथगेव खगादीन् दूषयन्ति न तु युगपञ्चरो दूषयन्ति। निर्देशादेव सप्तक इति लाभे सप्तक इति पदं सर्वत्र कुष्ठे सप्तानामेयां धातूनां नियमतो द्रव्यखख्यापनार्थ पुनरुक्तम्। ननु द्रव्यं कर्मगुणाश्रयसमवायिकारणं चेत् कथं वातादीनां त्रयाणां दोषाणामत्र कुष्ठे द्रव्यत्वं संगच्छते ? न हि व्याधिषु समवायिकारणानि दोषा भवन्ति दोषनिहरणादिभिर्हि व्याधिप्रतिक्रिया शास्त्रे दृश्यते, प्रत्यक्षश्च कथं समवायिकारणनाशात कायनाशः स्यात् किं कपालमालानाशात् घटनाशः स्यात् तस्माद दोषा आधारभूतनिमित्तकारणानि तन्नाशाद्धि कार्यनाशो दृश्यते यथा वत्तितैलविनाशाद दीपनाश इति प्रयुक्तञ्चाचायेणाधारभूतनिमित्तकारणे द्रव्यपदम्, रसनाथों रसस्तस्य द्रव्यमापः क्षितिस्तथेति । नैवं वत्तितैलमल्लिकादयः किं दीपारम्भकास्तद्वदेव किं सप्तैते धातवः कुष्ठे द्रव्यमाह वातादय इत्यादिना । वातादीनां खित्वे सिद्धेऽपि सय इति . वचनं सकुष्ठेषु बयाणामपि दृष्टिदर्शनार्थम्। द्रव्यसंग्रह इति कारणं संग्रहगव्याधारमारम्भक कारणमुच्यते, सप्तकं सर्वत्र सप्तकनियमार्थमुक्तमपि पुनरुच्यते। यद्यपि विसर्पाणामुत्पादे ३३० For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy