SearchBrowseAboutContactDonate
Page Preview
Page 1439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६८ चरक-संहिता। ( वस्तिसूत्रीयसिद्धिः वस्तिं ततः सव्यकरे निधाय सुबद्धमुच्छास्य च निलीकम् । अङ्गाष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम् ॥ तैलाक्तनेत्र कृतमूत्रविटकं नातिक्षुधात्तं शयने मनुष्यम्। समेऽथ किञ्चिन्नतशीर्षके वा नात्युच्छिते वास्तरणोपपन्ने ॥ सव्येन पावेन सुखे शयानं कृत्वर्जुदेहं स्वभुजोपधानम् । निकुञ्च्य सव्येतरदस्य सकथि सव्यं प्रसार्य प्रणयेत् शनैस्तम्॥ स्निग्धे गुदे नेत्रचतुर्थभाग स्निग्धं शनैम जुपृष्ठवंशम् । अकम्पनावेपनलाघवादीन् पाण्योगुणांश्चापि हि दर्शयंस्तम्। प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततोऽपकर्षेत् ॥ ८॥६॥ ततस्तं वस्तिं वामकरे निधाय नेत्रमूले कर्णिकाद्वयमध्येऽन्ते पूव च दृढ़सूत्रेण सुबद्धं वामाष्ठमध्येन नेत्रमुख पिधाय तन्नेत्रायप्रविष्टां वर्तिमपनीय वद्यस्तलाक्तनेत्रं-विण्मूत्रवेगं मुक्तवन्तं नातिक्षुधा मनुष्यमातुर स्वस्थं वा समे शयनेऽथवा किश्चिन्नतशीर्षके शयने नात्युच्छिते आस्तरणोपपन्ने मुखेन सव्येन पार्चेन शयानं स्वभुजोपाधानमजुदेहमकुटिलशरीरं तस्य सव्येतरत् दक्षिणं सक्थि सङ्कोच्य सव्यं सथि प्रसार्य घृतादिना स्निग्धे गुदै नेत्रस्याग्र चतुर्थ भागं कर्णिकायाः अधःप्रदेशं घृतादिस्नेहाभ्यक्तं त शनः प्रणयेत् प्रवेशयेत् । प्रवेश्य च नेत्राय शनर्नातिधीरं नातिद्रुतं मृदुना ऋजुना पृष्ठवंशसमानेन ऋजुभावेन वस्तिं कृखा कम्पनवेपनलाघवहीनेन वामपाणिना धृता दक्षिणेन पाणिना एकवारपीड़नेन किश्चित् सशेषं द्रव्यं यथा प्रविशेत् व्यवस्थामने कषायमानप्रस्ताव दर्शयामः। उच्छास्येति उच्छासनेन द्रव्याभिघातजनितवातनिर्गम. मिच्छति । निय॑लीकमिति क्रियाविशेषणम् । नेवाप्रसंस्थामिति प्रथमं द्रवनिर्गमादिप्रतिषेधार्थम् । वर्तिमिति नलिकाप्रमुखदत्तां वर्तिम्। तैलाक्तगात्रमित्यभ्यङ्गसाहचर्यात् स्वेदोऽपि ज्ञेयः, तेना भ्यतस्विनमित्यर्थः । उक्तं मन्यत-"अनुवासितमास्थापयता अभ्यतखिन्नशरीरम्" इति । प्रस्ता. वागतशयनविधिमाह-शयने मनुष्यमित्यादि । समेऽथवेषन्नतशीर्षके वेति विकल्पद्धयश्चातुरेच्छया कर्तव्यम्, किंबा उन्नतकटीदेशस्य पुरुषस्य समुन्नतकटीकस्या मतशीर्ष शयनं विधेयम्, एवं हि तस्य सम्यगवस्तिदेहानुसारी भवति । सव्येनेति वामेन, वामपार्श्वशयनप्रयोजनम्-वामाश्रये हि इत्यादिना वक्ष्यमाणम्, मनुष्यं यथोक्तसर्वगुणं कृत्वा प्रणयेदिति सम्बन्धः। स्वभुजोपाधानं यथा For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy