SearchBrowseAboutContactDonate
Page Preview
Page 1307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६५३६ www.kobatirth.org चरक संहिता | तालशालपर्णासचवक कालकगुअन कभूस्तृणशाककासमर्दभृङ्गराजानां पोटेचुबालिका काल कण्टक का राडेर कारणामन्यतमस्य कषायेषु कारयेदिति समानं पूर्वेण । ७ यथावत् षाड़वरागलेहमोद को कारिकातर्पणपानकमांसरसयूषमद्यानि मदनफलपाचितानि तेनोपसंसृज्य यथादोषरोगविभक्ति दद्यात्, तैः साधु वमतीति ॥ २१ ॥ भवन्ति चात्र । मदनः करहाटश्च राठः पिण्डीतकः फलम् । * Acharya Shri Kailassagarsuri Gyanmandir श्वसनश्चेति पर्य्यायैरुच्यते तस्य कल्पना ॥ २२ ॥ गङ्गाधरः– अपरान् चतुद्दश योगानाह - तालेत्यादि । तालादीनां चतुर्द्दशानामन्यतमस्य कषाये च शष्कुलीः पूपांश्च कारयेत् । कालकः कालशाक' । शाकः शाकवृक्षः स्वनामख्यातः । पोटः पोटगलो नल इति प्रसिद्धः । काल- कण्टको डाउक इति ख्यातः । इति चतुर्दश शष्कुलीयोगाः पूपयोगाश्चेति षोड़श : षोड़श योगाः शष्कुलीपूपयोः । अथ षाड़वादीन् दश योगनाह - यथेत्यादि । यथावत् षाड़वादीनां यद यथा क्रियते तत् तथैव मदनफलपिप्पलोकपायपाचितं तेनैव मदनफलकषायेणोपसंसृज्य यथादोषरोगविभागं दद्यात्, तेंः साधु वमति । षाड़वं मदनफलकषायेण पाचितं दद्यात् । रागश्च मदनफल कषायपाचितं दद्यात् । लेहश्चाम्लकृतं मदनफलकषायपाचितं दद्यात् । मोदकं मदनफलकषायपाचितं दद्यात् । उत्कारिकां तिक्षुरादिकृतां मदनफलपाचितां दद्यात् । तर्पणं द्रवालोड़ितसक्तककृतं मदनफलकषायपाचितं दद्यात् । पानकं शर्करोदकादिकं मदनफलकषायपाचितं दद्यात् । मांसरसं मदनफलकषायपाचितं दद्यात् । यूषं मदनफलकषायपाचितं दद्यात् । मद्यं मदनफलकषायपाचितं दद्यादिति दश योगा इत्येते त्रयस्त्रिंशदुत्तरशतं मदनफलस्य योगा व्याख्याताः ।। २१ ॥ गङ्गाधरः - भवन्ति चात्र । मदन इत्यादि पर्य्यायः । तस्य कल्पना । चक्रपाणिः - पोटा इक्षुगन्धा, दाण्डेरका गुन्द्राख्यगुरुमः, नलो वा । तथा वदरषाड़वेत्यादिना दश योगाः । वदरकृतषाड़वो वदरपादयः ॥ २१ ॥ चक्रपाणिः -- मदनस्य व्यवहारार्थ पर्यायानाह, मदनः करहाट इत्यादि । तस्म कल्पनेति वदरषाड़व इति चक्रधृतः पाठः । For Private and Personal Use Only [ मदमकल्पः
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy