SearchBrowseAboutContactDonate
Page Preview
Page 1308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः कल्पस्थानम्। ३५३७ नव योगाः कषायेषु वर्तिवष्टौ पयोमुखे। पञ्चैको प्रेयेऽथ लेहे चूर्णे वर्तिक्रियासु षट् ॥ विंशतिविशतिलेह-मोदकोत्कारिकासु च। शष्कुलीपूपयोश्चोक्ता योगाः षोड़श षोड़श ॥ दशान्ये षाड़वादेषु त्रयस्त्रिंशदिदं शतम्। योगानां विधिवद् दृष्टं फलकल्पे महर्षिणा ॥ २३ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने __मदनकल्पो नाम प्रथमोऽध्यायः ॥१॥ कषायेषु यष्टीमधुककोविदारादीनां कषायेषु नव योगाः। वर्तिषु पुनरष्ट योगा। पयोमुखे क्षीरमभृतौ पञ्च योगाः। प्रये चैको लेहे चैकश्चूण चैकः। षट् च योगा वर्चि क्रियासु । लेह विंशतिर्मोदके विंशतिरुत्कारिकायां विंशतिः। शष्कुल्यां षोड़श पूपे षोड़श पाड़वादिषु दशसु दशेति त्रयस्त्रिंशदुत्तरं शतं योगा मदनफलस्येति ॥ २२ ॥ २३॥ गङ्गाधरः-अध्यायं समापयति–अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकातिसंस्कृते। अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । .. कल्पस्थाने फलकल्पे प्रथमेऽध्याय एव च। वैद्यगङ्गाधरकृते जल्प कल्पतरौ पुनः। कल्पस्थाने सप्तमे तु स्कन्धेऽध्याय इहादिमे। फलकल्पे जल्पाभिधा खाद्या शाखा प्रकाशिता ॥१॥ य एवम्मूतः पोयाख्यातः, तस्येयं कपना । अस्य च पर्यायाभिधानं भूरिप्रयोगेषु विहितस्वेनाभ्यहितत्वाज शेयम् । एवमन्यत्रापि पर्यायाभिधाने प्रयोजनं वर्णनीयम् । मदनयोगस्य नवादिसंश्योत्कर्षनिरासार्थ सुखस्मरणार्थच संग्रहेणाह-नव योगा इत्यादि । अस्य धार्थों यथास्थाने ग्याइतः ॥ २२ ॥ २३॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतास्पयंटीकायां कल्पस्थानव्याख्यायां मदनकल्पो नाम प्रथमोऽध्यायः॥१॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy