SearchBrowseAboutContactDonate
Page Preview
Page 1306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] कल्पस्थानम् । ३५३५ स्थोणेयसरलपारावतांझाशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण साधयित्वा, उत्कारिका उत्कारिकाकल्पेन मोदका वा मोदककल्पेन यथादोषविभक्ति प्रयोज्या इति समानं पूर्वेण । फलपिप्पलीखरसकषायभावितानि तिलतण्डुलपिष्टानि त्वकषायोपसर्जनानि शष्कुलीकल्पेन शकुल्यः पूपकल्पेन पूपा इति समानं पूर्वेण । एतेनैव कल्पेन सुरससुमुखकुठेरकगण्डीरकानाम् ॥ २० ॥ वृक्ष एव । परिपेलवः कवत्तमुस्तकम् । पारावतांघ्रिलतापुटकी । अशोकरोहिणो कटुकी। एषां विंशतेरन्यतमस्य कषायेण मदनफलपिपलीचूर्ण पक्त्वा उत्कारिकाकल्पेनोत्कारिका कार्या, पाल इति लोके । मोदककल्पेन मोदका वा कार्या यथादोषविभागं प्रयोज्या इति पूर्वणोक्ताशिषा समानमिति । विंशतियोगा मोदके, विंशतिरुत्कारिकायामिति। अथ षोड़श शष्कुलीयोगानाह–फलेत्यादि । मदनफलपिप्पलीनां खरसाख्यकषायेण भावितानि तिलतण्डलपिष्टानि खकषायोपसज्जेनानि गुडलकषायेण पिष्टानि शष्कुलीकल्पेन तण्डुलपिष्टककोटराभ्यन्तरे पूरयिखा शष्कुल्यः कार्या इत्येकः शष्कुलीयोगः। पूपकल्पेन पूपा इति। तान्येव तिलतण्डुलपिष्टानि कषायोपसर्जनानि पूपकल्पेन मुद्माषवत्तु लकलायपिष्टकसहितमिश्रितानि कुखा पूषा वटकाः काव् इत्येकः पूपयोगः। अपरान् पञ्चदश पञ्चदश शष्कुलीपूपयोगानाह-एतेन वेत्यादि। एतेनैव शष्कुलीकल्पेन पूपकल्पेन सुरसादीनां चतुर्णा मिलित्वैकं कषायं कारयेत् । तेन कषायेण भावितानि मदनफलकषायभावितानि तिलतण्डुलपिष्टानि सुरसादीनां कषायेण पुन वितानि शष्कुलीकल्पेन शकुल्यः कार्याः पूपकल्पेन पूपाः कार्या इत्येकः शष्कुलीयोगः एकश्च पूपयोगः ॥२०॥ दन्यं स्वनामख्यातम्, परिपेलवं कवर्तमुस्तकम्, स्थौणेयको अन्थिपर्णकम्, पारावतपदी ज्योतिष्मती, अशोकरोहिणी अशोकसदृशपलाशलता, कटुरोहिणीत्यन्ये। केचिदत्र स्थौणेयक परित्यज्याऽपाकीपाद्या विंशतिं पूरयन्ति, अपाकीपादी स्वनामख्याता । उत्कारिकाकल्पेनेति सूदशास्त्रोक्तोत्कारिकाविधानेन। फलपिप्पलीस्वरसेत्यादिना शष्कुलोकल्पेनेत्यादिना एतेनैव च कल्पेनेत्यादिना च सुमुखादिपञ्चदशद्रव्यकषायेण पृथक् शष्कुल्यपूपयोः करणात् पञ्चदश योगा भवन्ति ; एवं मिलित्वा शकुलीपूपयोः पृथक् षोड़श योगा भवन्ति ॥२०॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy