SearchBrowseAboutContactDonate
Page Preview
Page 1284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० अध्यायः चिकित्सितस्थानम् । ३५१३ निशान्ते दिवसान्ते च वर्द्धन्तै वातजा गदाः । प्रातः क्षपादौ कफजास्तयोर्मध्ये तु पित्तजाः ॥ वयोऽन्तमध्यप्रथमे वातपित्तकफामयाः। बलवन्तो भवन्त्येव स्वभावाद वयसो नृणाम् ॥ जीर्णान्त वातजा रोगा जीर्यमाणे तु पित्तजाः। श्लेष्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम् ॥ १२० ॥ नाल्पं हन्त्यौषधं व्याधि यथापोऽल्पा महानलम् । दोषवच्चातिमात्रं स्यात् शस्यस्यात्युदकं यथा ॥ संप्रधाऱ्या बलं तस्मादामयस्यौषधस्य च । नवातिबहुलात्यल्पं भैषज्यञ्चावचारयेत् ॥ १२१ ॥ स्युरिति व्याधीनामुक्तं विशेषावेक्षणम्। निशान्त इत्यादि। निशान्ते दिवसान्ते च वातजा गदा वर्द्धन्ते तथा प्रातः पूर्वाह्न क्षपादौ रात्रेरादौ कफजा गदा वर्द्धन्ते तयोर्निशामध्ये दिनमध्ये च पित्तजा गदा वर्द्धन्ते। इत्यहोरात्रा. वेक्षणं व्याधीनाम्। वयोऽन्त इत्यादि। वयसोऽन्ते वातजा गदा बलवन्तो भवन्ति मध्ये पित्तजाः प्रथमे कफजाः। इति वयोऽवेक्षणा। जीर्णान्त इत्यादि। जीर्णान्ते भोजनस्य वातजा रोगा वर्द्धन्ते भोजने जीर्यमाणे पित्तजाः भुक्तमात्रे तु श्लेष्मजाः प्रायशो बलं लभन्ते। इति वयोभोजनावेक्षणं व्याधीनामिति ॥ १२०॥ गङ्गाधरः–मात्रावदोषधप्रयोग एव कार्यो न खतिमात्राल्पमात्राभ्याम्, कस्मादित्यत आह-नाल्पमित्यादि। अल्पमात्रमौषधं व्याधि न हन्ति यथाल्पा आपो न महानलं नन्ति । तयतिमात्रं व्याधि किं हन्तीत्यत आहअतिमात्रमौषधश्च दोषवत् स्याद् यथात्युदकं शस्यस्य दोषवत् । तस्मात् आतुरस्य बलं सम्प्रधा-मयस्य बलं सम्प्रधार्य औषधस्य च बलं सम्पधार्य नवातिबहुलं नात्यल्पं यथा स्यात् तथा भैषज्यमवचारयेत् ॥ १२१॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy